श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता तस्मादेवं विध्यनुवादी । सदा येन भावितमन्तःकरणं तदेवान्ते प्रयाणानन्तरं प्राप्यते । तच्च स्मयंते न वा इति वाढ निर्बंन्धः | अन्वाचयश्वायम् अपिशब्देन सूचितः । स्मरणस्य असर्वथाभावं वाशब्द: स्फटयति । 'सदा च सत्परमो जनः सर्वथा स्यात्' इति तात्पर्य मुनिरेव प्रकटयति । यदाह तस्मात् सर्वेषु कालेषु मामनुस्मर इति । तेनेत्थमत्र पदसङ्गतिः - सदा यं यं भावं स्मरन् कलेबरं त्यजति, अन्तेऽपि वा स्मरन्- वाग्रहणात् अस्मरन् वा - तं तमेवैति । यतोऽसौ सदा तद्भावेन भावितः । - 136 - अन्ये तु – कलेवरं त्यजति सति अन्ते कलेवरत्यागक्षणे बन्धुपुत्रादिप्रमानगोचरे श्वासायास हिक्कागद्गदादिचेष्टाचरम- भाविनि क्षणे शरीरदाढर्थबन्धप्रतनूभावात् देहकृत सुखदुःखमोह- बन्धे कालांशे देहत्यजनशब्दवाच्ये यदेव स्मरति तदेव प्रथमसं- विदनुगृहीतम् अस्य रूपं संपद्यते । तादृशे च काले स्मरणस्य कारणं सदा तद्भावभावितत्त्वमिति । 'त्यजति' इति सप्तमी योज्या इति । प्राकृतन एवार्थः । - ननु एवमन्तकाले किं प्रयोजनं तत्स्मरणेन? क एवमाह 'प्रयोजनम्' इति? किंतु वस्तुवृत्तोपनतमेव तद्भवति तस्मिन्नन्त्ये क्षणे । 1. 2. 3. S, K (n) – प्रमानन्तरागोचरे K - वन्ध्ये S, B, N ताबृशि
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१९७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति