138 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता असंशयमिति • नाव संदेग्धव्यमिति [तात्पर्यम् ] ॥ ५-७ ॥ अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् .. ८ ॥ अभ्यासेति । अनुचिन्तयत् इति शरीरभेदानन्तरं वि- वृत्तकलेवरकृतव्यथः पश्चाद्भगवन्तं चिन्तयन्निति ॥ ८ ॥ कवि पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः । सर्वस्य धातारमचिन्त्यरूपमादित्यवर्ण तमसः परस्तात् ॥ ९॥ प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगवलेन चैवम् (१) । भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥१०॥ कविमिति । प्रयाणेति । एवम् अनुस्मरेदिति। आदित्येति । आदित्यवर्णत्वं वासुदेवतत्त्वस्य [न] परिच्छेदकम् । आकृति- कल्पनादि विभ्रान्तिमयमोहतमसः अतीतत्त्वात् रवित्वेनोपमान- मित्याशयः । भ्रुवोर्मध्ये इति प्राग्वत् ॥ ९-१० ॥ यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पदं संग्रहेणाभिधास्ये ॥ ११ ॥ यदक्षरमिति | सम्यक् गृह्यते निश्चीयते अनेनेति संग्रहः उपायः । तेन उपायेन तत्2 पदमभिधास्ये, उपायमन सतता- भ्यासाय वक्ष्ये ॥ ११ ॥ सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । मूर्त्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ १२ ॥ 1. 2. N विकल्पनादि S उपायेनंतत्
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१९९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/5/5a/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE_%28%E0%A4%85%E0%A4%AD%E0%A4%BF%E0%A4%A8%E0%A4%B5%E0%A4%97%E0%A5%81%E0%A4%AA%E0%A5%8D%E0%A4%A4%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE%29.djvu/page199-821px-%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE_%28%E0%A4%85%E0%A4%AD%E0%A4%BF%E0%A4%A8%E0%A4%B5%E0%A4%97%E0%A5%81%E0%A4%AA%E0%A5%8D%E0%A4%A4%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE%29.djvu.jpg)