अष्टमोऽध्यायः 143 सर्वतो लोकेभ्यः पुनरावृत्तिः, न तु मां परमेश्वरं प्राप्य इति स्फुटयति- परस्तस्मात्तु भावोऽन्यो व्यक्ताव्यक्तः सनातनः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥ अव्यक्तोऽक्षर इत्याहुस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥ पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यं प्राप्य न पुनर्जन्म लभन्ते योगिनोऽर्जुन ॥ यस्यान्तःस्थानि भूतानि यत्र सर्व प्रतिष्ठितम् ॥ २२ ॥ पर इत्यादि प्रतिष्ठितमित्यन्तम् । उक्तप्रकारं काल- संकलनाविवर्जितं तु वासुदेवतत्त्वम् | व्यक्तम्, सर्वानुगतम्; तत्त्वेऽपि अव्यक्तम्, दुष्प्रापत्वात् । तच्च भक्तिलभ्य मित्यावेदितं प्राक् | तत्वस्थं च एतद्विश्वं यत्खलु अविनाशिरूपं 2 सदा तथा- भूतम् । तत्र कः पुनःशब्दस्य आवृत्तिशब्दस्य चार्थ: १ स हि मध्ये तत्स्वभावविच्छेदापेक्षः । न च सदातनविश्वोत्तीर्णविश्वाव्यति- रिक्त - विश्वप्रतिष्ठात्मक परबोधस्वातन्त्र्यस्वभावस्य श्रीपर- मेश्वरस्य तद्भावप्राप्ति: 4 [संभवति ], येन स्वभावविच्छेदः कोऽपि कदाप्यस्ति [इति कल्प्येत ] । अतो युक्तमुक्तम् 'मासु- पेत्य तु' (VIII, 16) इति ॥ २०-२२ ॥ S,K omit परमेश्वरम् 1. 2. B स्वरूपम् 3. S, B,N,K (n) विश्वनिष्ठात्मक 4. N - प्राप्तस्य -
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२०४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति