152 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता सदात्मनि ब्रह्मणि तिष्ठतो मुनेः पूर्णाद्वयानन्दमयात्मना सदा । न देशकाला द्युचितप्रतीक्षा स्वङ्मांस विपिण्ड विसर्जनाय || (विवेकचूडामणिः, ५५८) श्लो. १६ (मू) मामुपेत्येति । स्थितस्येति शेषः ॥ श्लो. २३ (अ) अपवर्ग भोगं चेति । प्राप्तुमिति शेषः । प्राप्ती च उत्क्रान्स्येति तृतीयार्थ प्रयोज्यत्वस्यान्वयः । इच्छन्तीति । यद्यपि 'यान्ति' इत्येव मूलम्; तथाऽपि पाते: गत्थथंकत्वात् गतेरिच्छाजन्यत्वात् जनकेच्छायाम् धातो- लक्षणा इत्यभिप्रेत्यावतारितमाचार्येण इति भाति । अथ वा गच्छन्ति इत्येव वा विवक्षितम् ॥ श्लो. २४-२५ (व्या) दहनादिकै शब्दैरिति । दहनादि- वाचकैः अग्न्यादिभिः शब्दैरिति यावत् ॥ श्लो. २८ (व्या) अत्ययनस्य अभिभवरूपत्वात् आह अत्येति अभिभवति इति । अभ्येति इति मूलपाठे तु अभि अभि- ऋम्य विरोधभावेन एति गच्छति इति तत्पर्येण व्याचष्टे- अभि- भवति इति ।। सङ्ग्रहश्लोके विभुरिति-विशेषेण विविधं च भवति यः ॥ ॥ इति श्रीमद्भगवद्गीतार्थसंग्रह टिप्पण्याम् अष्टमोऽध्यायः ॥
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२१३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति