156 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता अवजानन्ति मां मूढा मानुषीं तनुमास्थितम् । परं भावमजानन्तो ममाव्ययमनुत्तमम् ।। १२ ।। अवजानन्तीति । सोऽहं सर्वजनान्तःशायी, सर्वस्यात्म- रूपतया' अवज्ञास्पदम्; यत् मानुषादिचतुर्दश विध'सर्गव्यति- रिक्त ईश्वरो नोपलभ्यते, स कथमस्ति इति ॥ १२ ॥ मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । आसुरीं राक्षसीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ १३ ॥ मोघेति । तेषां च कर्म ज्ञानम् आकांक्षाश्च सर्वं निष्फ- लम्, अवस्तुविषयत्त्वात् । आसुरीं राक्षसी चेति - उद्रिक्तरज- स्तमोधर्माण इति ॥ १३ ॥ महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् || १४ || सततं कीर्तयन्तश्च यतन्तश्च यतव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते । १५ ।। ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथकत्वेन बहुधा विश्वतोमुखम् ॥ १६ ॥ महात्मान इत्यादि विश्वतोमुखमित्यन्तम् । देवीं, सात्वि- कीम् । यजन्तः, बाह्यद्रव्यादियागैः । अन्ये तु मां ज्ञानयज्ञे- नैवोपासते । अतः केचित् एकतया ज्ञानतः, केचित् बहुधा, कर्मयोगात् । मत्परा एव सर्वे ।। १४-१६ ।। 1. Somits सर्व ; B,N omit-जन- S. K - त्मपरख- 2. 3. Bomits-विध-
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२१७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति