162 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम् ।। २८ शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ २९ ॥ यत् करोषोति । शुभाशुभेति । देवतान्तरयाजिनो यतो मितमनोरथाः फलं लघयन्ति, अतस्त्वं सर्वं प्रागुक्तोपदेश क्रमेण मदर्पणं सन्मयत्वेव भावनं कुरु । एष एव च संन्यासयोग इति विस्तीर्णं विस्पष्टप्रायं पुरस्तादेव ।। २८-२९ ॥ समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ ३० । अपि चेत् सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ३१ ।। क्षिप्रं भवति धर्मात्मा शश्वच्छान्ति निगच्छति । कौन्तेय प्रतिजानेऽहं न मद्भक्तः प्रणश्यति ॥ ३२ ॥ सम इत्यादि प्रणश्यतीत्यन्तम् । प्रतिजाने इति । युक्ति- युक्तोऽय पर्थो भगवत्प्रतिज्ञातत्वात् सुष्ठुतमां दृढो भवति ।। ३०-३२ ।। मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ३३ ॥ किं पुनर्जाह्मणाः पुण्या भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ३४ ॥ 1. S omits मन्मयत्वेन भावनम्.
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२२३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति