नबमोऽध्यायः 165 श्लो. ५ (मू) ममात्मेति । शैषिकी षष्ठी संबन्धमामान्ये । 'निर्विशेषं न सामान्यम्' इति न्यायेत सामान्यस्य विशेषनिष्ठ- ९ तया, प्रकरणात्, औचित्यात्, सम्बन्धान्तरासम्मवाच्च प्रकृते सामान्य: संबन्ध: 'तादात्म्यम्, अभेद' इति शब्दाभ्यां निर्दिष्टे संबन्धविशेषे पर्यवस्यति । तथा च अहंविमर्शरूप आत्मेत्यर्थः । भूतभावन इति । 'मदात्मना घटो बेत्ति' इत्युक्तरीत्या भसावि सर्वाणि भावयन्ते । तत्व हेतुः ममात्मा इति । भूत- भाववः । णिजन्तात् णिच् ॥ श्लो. ७ (मू) एवं हीति । आचार्येणाव्याख्यातस्यास्य पद्यस्य शिवाद्वैतवादजीवातुसमस्य काश्मीरीय मूल कोशेषूपलभ्य- धानस्य काश्मीरीय रामकण्ठादिभिर्व्याख्यातस्यायमर्थः - सर्वे- ध्वपि भूतभावेषु अचेतनतया चेतनतया च प्रसिद्धेषु चैतन्यं 'भूमिरापोऽनल' इति, 'अपरेयमितः' इति च (गीता VII, ४-५) पूर्वोपशितरीत्या सर्वभूतप्रकृतिभूतं सत् वर्तत एव इति । चरामि तथापि अनभिलक्षित इति सहैव च विनैव च इति न विप्रतिषिद्धम् । लौकिकपारमार्थिकदृष्ट्या तदुपपत्तेः । तथाहि- परमार्थदर्शिनं प्रति उक्तभूतप्रकृतित्वेन सह चैतन्यं सर्वत्र चरति उपलभते । लौकिकम् उक्ततत्त्वादर्शिनं प्रति तु विनैव तेन चरति इत्यनभिलक्षितः इति तात्पर्यार्थिः । -- श्लो. १०-११ (व्या) न च मेऽस्ति कर्मबन्धः औदासीन्येन वर्तमानोऽहं यत इति । यथाहुः— 'गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः । (सांख्यकारिका-२०)
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२२६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति