170 श्रीमद्भगवद्गीता पोतार्थसङ्ग्रहोपेता विधय इत्यर्थे अविधिशब्दः पर्यवस्थति । न चैतःदृशान्वयबो- धोऽव्युत्पन्नः । 'भिन्नरुचिहि लोकः' इत्यादी उक्तरीत्यैवान्वय- बोधस्य सर्वानुभवसिद्धत्वात् । भिन्नशब्दार्थो भेदवान्, स वजर्थ एवेत्यत्न व विवादः । एवं च नानाविध्यर्थकत्वबोधः अविधि- शब्दाल्लभ्यते । अथवा न विधि: (परः, अन्य:) येभ्यस्तै अविधयः' इति पञ्चमीबहुव्री ह्याश्रयणेन अविधिशब्दात् 'सर्वे विधयः' इत्यर्थलाभसंभवः इति मनसि कृत्वेवार्थं वर्णयति नानाप्रकारै विधिभिरिति । - अविधिना दुष्टविधिनेति। अत्र प्रकरणपरिशीलनेन, तथा मितमृदुभाषिण अाचार्यस्य तीक्ष्णखण्डनेन चेदं प्रतिभाति - भवाचार्येण परामृश्यमानानां व्याख्यातॄणां दृष्टया तदीयशास्त्रे तरशास्त्रेषु दृश्यन्ते ये विधयः ते दुष्टविधयः; निष्पक्षपातितो भगवतो वाक्यस्य अविधिपूर्वकम् इत्यस्य तादृशारोपितदुष्टत्व- वद्विधिपुरस्सरमित्यर्थ इति । तेऽपि वस्तुतो मामेव स्वात्मरूपं यजन्ते इति । अन यज- न्तीति परस्मैपदेन भाव्यम्, भूलस्वारस्यात् । स्पष्टीभविष्य- तीदमनुपदमेव । अतश्चलन्ति ते इत्युक्तेरभिप्रायं ज्ञातुं पृच्छति-किमिति । कथमित्यर्थः । उपसंहरिष्यतीति । एतावता प्रबन्धेन आचार्योः 'अविधि- पूर्वकम्' इत्यस्य 'नानाविधिपूर्वकम्' इत्यर्थः स्वाभिप्रायेणोप- वर्णितः; परकृतव्याख्यायाम् असामञ्जस्यं प्रदर्शितम्; स्वगुरु-
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२३१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति