दशमोऽध्यायः अथवा बहुनैतेन किं ज्ञानेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन जगत्स्थितः ॥ ४२ ॥ ॥ इति श्रीमद्भगवद्गीतायां दशमोऽध्यायः ॥ हन्त ते कथयिष्यामीत्यादि जगत्स्थित इत्यन्तम् । 'अह- मात्मा' (श्लो. २०) इत्यनेन व्यवच्छेदं वारयति । अन्यथा 'स्थावराणां हिमालय' इत्यादिवाक्येषु 'हिमालय एव भगवान् नान्य' इति व्यवच्छेदेन, निविभागत्वाभावात् ब्रह्मदर्शनं खण्डि- तम् अभविष्यत् । यतो यस्याखण्डाकारा व्याप्तिस्तथा चेतसि न उपारोहति, तां च [यो] जिज्ञासति तस्यायमुपदेशग्रन्थः । तथाहि उपसंहारे भेदाभेदवादं 'यद्यद्विभूतिमत्सत्त्वम्' (श्लो-४१) इत्यनेवाभिधाय, पश्चादभेदमेवोपसंहरति 'अथवा बहुनतेन - विष्टभ्याहमिदं - एकांशेन जगत् स्थितः' (श्लो-४२) इति । उक्तं हि - ... 179 DSP पादोऽस्य विश्वा भूतानि विपादस्यामृतं दिवि ॥ इति - RV. X, 90, 3 प्रजानां सृष्टिहेतुः सर्वमिदं भगवत्तत्त्वमेव तेस्तै विचित्रे रूपैर्भा- व्यमानं सकलस्य 3 विषयतां यातीति ॥ १९-४२ ।। ॥ शिवम् ॥ 1. 2. 3. B उपसंहारेण S तत्त्वमेतैस्तैविचित्र: रूपः; B,N -विचितरूपं :-- S,N सकल मस्य
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२४०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति