206 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता अमानित्वमदम्मित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौच स्थैर्यमात्मविनिग्रहः ॥ ७ ॥ इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ८ ॥ असक्तिरनमिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ ९ ॥ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्त देश सेवित्व मरतिर्जनसंसदि । १० ।। अध्यात्मज्ञाननिष्ठत्वं तत्रज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ ११ ॥ And अमानित्वमित्यादि अन्यथा इत्यन्तम् । अनन्ययोगेनेति- 'परमात्मनो महेश्वरात् अन्यत् अपरं न किंचिदस्ति' इत्यनन्य- रूपो यो निश्चयः, स एव योगः; तेन निश्चयेन मयि भक्तिः । अत एवं सा व कदाचित् व्यभिचरति व्यभिचारहेतुत्वाभि- मताना' कामनानामभावात्, तासामपि वा चित्तवृत्त्यन्तर- रूपाणां तदेकमयत्त्वात् । एवं सर्वत्वानुसन्धेयम् । एतद्विपरीतम् अज्ञानम्; यथा मानित्वादीनि ॥ ७-११ ॥ एतेन ज्ञानेन यत् ज्ञेयं तदुच्यते- ज्ञेयं यत्तत् प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । अनादिमत् परं ब्रह्म न सत्तन्नासदुच्यते ॥ १२ ॥ 1. S,B,N - त्वाभिगतानाम् RAFFASS
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२६७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति