208 श्रीमद्भगवद्गीता गीतार्थं संग्रहोपैता एतल्लक्षणं कृत्वा परीक्षा क्रियते- प्रकृतिं पुरुषं चैव विद्धचनादी उभावपि । विकारांच गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥ १९ ॥ कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते || २० || पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ २१ ॥ उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः ॥ २२ ॥ प्रकृतिमित्यादि पर इत्यन्तम् । प्रकृतिरप्यनादि:1; कार- णान्तराभावात् । विकारा: पटादयः । प्रकृतिरिति कार्यकारण- भावे हेतुः । पुरुषस्तु प्रधान्यात् भोक्ता । प्रकृतिपुरुषयोः पङ्- ग्वन्धवत् किलान्योन्यापेक्षा वृत्तिः । अत एवास्य [पुरुषस्य ] शास्त्रकृद्भिः नानाकारैर्नामभिरभिधीयते रूपम् 'उपद्रष्टा' इत्यादिभिः । अयमत्र तात्पर्यार्थ:-प्रकृतिः तद्विकारः, चतुर्द- शविधः सर्गः, तथा पुरुषः, एतत्सर्वम् अनादिनित्यं च ब्रह्मतत्वा- च्छुरितत्वे सति तदनन्यत्वात् ॥ १९-२२ ॥ तथा चाह- य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ २३ ॥ 1. B,N कार्यकारण प्रकृतिरप्यनादिः
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२६९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति