पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

210 श्रीमद्भगवद्गीता गौतार्थसंग्रहोपेता अत एव - समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ २८ ॥ सममिति । सर्वत्रैव समबुद्धिर्योगी आत्मानं न हिनस्ति दुस्तरे संसारार्णवे न पातयति ॥ २८ ॥ प्रकृत्यैव हि कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानम कर्तारं स पश्यति ॥ २९ ॥ प्रकृत्येति । यस्य हि ईदृशी स्थिरतरा बुद्धिर्भवति 'प्रकृ तिरेवेदं करोति, नाहं किञ्चित्' इति स सर्वं कुर्वाणोऽपि न करोति । एवमकर्तृत्वम् ।। २९ ॥ यदि वा - यदा भूतपृथग्भाव मे कस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥ ३० ॥ अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ ३१ ॥ यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ ३२ ॥ यदेत्यादि नोपलिप्यत ईत्यन्तम् । विस्तीर्णत्वेन सर्वव्या- प्त्या यदा भूतानी पृथक्तां भिन्नताम् आत्मन्येव पश्यति, 1. B, N न हिनस्ति, न दुस्तरे संसारार्णवे पातयति । Komits इति । 2. 3. S चित्रताम्