212 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ॥ श्लो. १-२ (व्या) क्षिणोतीति । क्षेणोतीति वा । क्षिणु हिंसायां तनादिः । उप्रत्ययनिमित्तस्य लघूपधगुणस्य विकल्पः; संज्ञापूर्वक विधेरनित्यत्वात् ॥ श्लो. ३-४ (व्या) यद्विकारि इति मूले विकारस्य गुणस्य यच्छन्दार्थ प्रयुक्ततया 'तृतीया तत्कृतार्थेन गुणवचनेन' (PA, II, i, 30 ) इति तृतीयासमास इत्यभिप्रेत्यार्थमाह - येन विकारं गच्छतीति । श्लो. ५-६ (व्या) प्रारब्धे निष्पन्ने वा कार्ये इति । वा इति चार्थे । प्रारब्धे कार्ये निष्पन्ने परिनिष्पन्ने समापिते च सति इत्यर्थः । कार्यस्य फले उत्पन्ने च सतीति यावत् ॥ श्लो. ७-११ (व्या) तेन निश्चयेनेति । तृतीयार्थः अभेदः भक्तावन्वेति । उक्तनिश्चयात्मिका मयि भक्तिरित्यर्थः । एवं सर्वत्रानुसंधेयमिति । अमानित्वादिष्वपि 'अनन्ययोगेन' इत्यस्य योगोऽनुसंधेय इत्यर्थः ॥ श्लो. १९-२२ (व्या) प्रकृतिपुरुषयोः पङ्ग्वन्धवदित्या- दिवा पुरुषः प्रकृतिस्थो हि इति मूलं व्याख्यातम् । तद्विकार इति । स च द्वात्रिंशत्संख्याकः । अनादीति । प्रागभावाप्रतियोगीत्यर्थः । नित्यमिति । ध्वंसाप्रतियोगीत्यर्थः । ब्रह्मतत्त्वेत्यादि । ब्रह्मतत्त्वेन आ समन्तात् अविच्छेदेव छुरितत्वे प्रदीपितत्वे सतीत्यर्थः ।
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२७३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति