पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशोऽध्यायः श्रीभगवानुवाच- परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ १ ॥ परमिति । यदेव पूर्वोक्तं ज्ञानं, तदेव पुनः प्रकर्षेण प्रत्येकं गुणस्वरूपनिरूपणाय वैतत्येन वक्ष्यामि । यज्ज्ञात्वा इत्यवेव अस्य ज्ञानस्य दृष्टप्रत्ययतां प्रसिद्धिं चाह ॥ १ ॥ इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ २ ॥ इदमिति । 'व्ययन्ति' इति छान्दसत्वात् तिप्रत्ययः । एवमन्यत्रापि सुप्तिङ्प्रत्यये वाच्यम् || २ || तवादी संसृती क्रममाह । हातव्ये ज्ञाते तत्करणे च, सुकरं हि हानम्- मम योनिर्महद् ब्रह्म तस्मिन् गर्भ ददाम्यहम् । संभवः सर्वभूतानां ततो भवति भारत ॥ ३ ॥ ममेति । मम तावत् अव्यपदेश्यपरमानन्दरूपस्य महद् ब्रह्म बृंहकात्मीयशक्तिरूपं ब्रह्म । आत्मीयामेव हि विमर्श- शक्तिमालम्ब्य अहमनादीन् आत्माणून् अनुग्रहार्थं संसार- यामि ॥ ३ ॥ 1. S अवैतत्येन