श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता मां चेति । अनेन मूलभूतमुपायमुपदिशति । च शब्दोऽ- वधारणे - यो मामेव सेवते । अनेन फलादिसाकाङ्क्षो मामङ्ग- त्वेनाश्रयति, फलं प्रधानतया इति विरस्तः । अत एव न अस्था- व्यभिचारिणी भक्ति; फलं प्रति सौ आस्थावान् इति । यस्तु फलं किंचिदपि अनभिलण्यत् 'किमेतदलीकमनुतिष्ठसि" इति पर्यनुयुज्यमानोऽपि, निरन्तरभगवद्भक्तिवेधविद्रुतान्तःकरण- तथा 2 कण्ट कित रोमवान्, वेपमानतनु, विस्फारितनयनयुगलपरि- वर्तमान सलिल संपातः तूष्णींभावेनैवोत्तरं प्रयच्छति, स एवाव्य- भिचारिण्या भगवतो महेश्वरस्य अग्रशक्त्य। भक्त्या पविती- कृतो नान्य इति ज्ञेयम् ।। २६ ।। 222 ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य त धर्मस्य सुखस्यैकान्तिकस्य च ॥ २७ ॥ ॥ इति श्रीमद्भगवद्गीतायां चतुर्दशोऽध्यायः ॥ ब्रह्मण इति । अहमेव हि ब्रह्मणः प्रतिष्ठा । मयि सेव्य- माने ब्रह्म भवति; अन्यथा जडरूपतया ब्रह्म उपास्यमानं सो- क्षमपि सौषुप्ताद विशिष्टमेव प्रापयेत् इति ॥ २७ ॥ ॥ शिवम् ॥ 1. B,N किमिति सदलीक 2. S उत्कण्ट कित- 3. B,N विस्फारतरनयन- 4 N उग्रशक्तचा
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२८३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति