234 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता एतेन तु ज्ञातेनैवेति चित्रम् । इतिशब्देन शास्त्रस्य समाप्ति: सूचिता, वक्तव्यस्य परिपूर्णतया समाप्तत्वात् । तथा हि- षोडशाध्यायेन शिष्यस्य अर्जुनस्य केवलं योग्यता प्रतिपाद्यते । न तु उपदिश्यते किञ्चित् । 'दैवी ह्येवंविधा संपत्, आसुरी चाविद्यामयी एतादृशी संपत्; त्वं च विद्यामयीं दैवीं संपद- मभिप्राप्तः' इत्येतावति हि तात्पर्यम् । यद्वक्ष्यति 'मा शुच: संपदं दैवीम्' इति । अत एव पूर्वं विद्याविद्यासंघट्टनिरूपणा- वसरे' 'देवासुरसंग्रामच्छलेन विद्याविद्ययोः संघर्षः' इति सूचि- तम् । एवं च शिष्यस्वरूपे प्राधान्येन निरूप्यमाणे प्रसंगतः अन्यदप्युक्तम्, इत्यध्यायद्वयं भविष्यति । उपदेशस्त्वित एव परिसमाप्तः । सर्वभावेन हि परमेश्वरभजनम् आवेशरूपं प्राप्यम् । तदर्थं चान्यत् सर्वमित्युक्तं प्राक् । सर्वमाहेश्वर- स्वरूपावेश एव हि परमं शिवम् इति ॥ २० ।। ।। शिवम् || अत्र संग्रहश्लोकः- 'हत्वा द्वैतमहामोहं कृत्वा ब्रह्ममयीं चितिम् । लौकिके व्यवहारेऽपि मुनिनित्यं समाविशेत् ।। ।। इति श्रीमहामाहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविर- चिते श्रीमद्भगवद्गीतार्थसंग्रहे पञ्चदशोऽध्यायः ॥ 1. B,N ज्ञानेनं वेति 2. S, B तादृशी 3. 4. 5. B संबद्ध निरूपण-; N संघध्व ( र्ष ) - B प्राप्तम् K हृत्वा
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२९५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति