षोडशोऽध्यायः 'एतद्बुद्ध्वा' इत्युक्तम् । बोधश्च नाम 'श्रुतिमय- ज्ञानानन्तरम् 'इदमित्थम्' इत्येवंभूतयुक्तिचिन्ताभावनामय- ज्ञानोदयेन 2 विचारविमर्शपरमर्शादिरूपेण विजातीयन्यक्कार- विरहिततद्भावनामयस्वभ्यस्ताकारविज्ञानलाभे सति भवति । यद्वक्ष्यते'– ‘विमृश्यैतदशेषेण यथेच्छसि तथा कुरु' ( XVIII, 63 ) इति । तत्र श्रुतिमये ज्ञाने गुरुशास्त्रे एव प्राधान्येन प्रभवतः । युक्तिचिन्ताभावनामये तु विमर्शक्षमता असा- धारणा शिष्यगुणसंपत् प्रधानभूता । अतः 'अर्जुनस्यास्त्ये- वासौ' इत्यभिप्रायेण वक्ष्यमाणं 'विमृश्यैतत्' इति वाक्यं सविषयं कर्तुं परिकरबन्धयोजनाभिप्रायेण आह भगवान् गुरुः 'अभयम्' इत्यादि । आसुरभागसन्निविष्टा तामसी किल अविद्या । सा प्रवृद्धया दिव्यांशग्राहिण्या विद्यया बाध्यते इति वस्तुस्वभाव एषः । त्वं च विद्यात्मानं दिव्यमंशं सात्त्विकमभिप्रपन्न:, तस्मादान्तरीं मोहलक्षणामविद्यां विहाय 'बाह्याविद्यात्मशत्रु- हननलक्षणं शास्त्रीयव्यापारम् अनुतिष्ठ इत्यध्यायारम्भः । 1. S श्रुत 2. S, B, N चिन्तामयज्ञानोदयेन 3. S तद्वक्ष्यते; N तद्वक्ष्यति 4. B– रणशिष्य- 5. B प्रवृद्धाया 6. S बाह्यविद्या- •विद्याया बध्यते
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३००
एतत् पृष्ठम् अपरिष्कृतम् अस्ति