240 तथाहि- श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपेतः श्रीभगवानुवाच- अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्र यज्ञश्व स्वाध्यायस्तप आर्जवम् ॥ १ ॥ अहिंसा सत्यमक्रोधस्त्यागोऽसक्तिरपैशुनम् । दया भूतेष्वलोल्यं च मार्दवं ह्रीरचापलम् ॥ २॥ तेजः क्षमा धृतिस्तुष्टिरद्रोहो नातिमानिता । भवन्ति संपदं दैवीमभिजातस्य भारत ॥ ३ ॥ दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ संपदमासुरोम् ॥ ४ ॥ दैवी संपद्विमोक्षाय निबन्धायासुरी मता । मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ॥ ५ ॥ अभयमित्यादि पाण्डवेत्यन्तम् । दिव्यांशस्य इमानि चिह्नानि तानि स्फुटमेवाभिलक्ष्यन्ते । दमः2 इन्द्रियजयः । चा- पलं पूर्वापरमविमृश्य यत् करणम्, तदभावः अचापलम् । तेजः आत्मनि उत्साहग्रहणेन मितत्वापाकरणम् । दैवी संपदेषा । सा च तव विमोक्षाय, कामनापरिहारात् । अतस्त्वं शोकं मा प्रापः - यथा 'भ्रातादीन् हत्वा सुखं कथमश्नुवीय' इति । शिष्टं स्पष्टम् ।। १-५ ।। 1. S, B स्फटमेवोपलक्ष्यन्ते 2. S omits दमः
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३०१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति