250 श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपेता अफलाकांक्षिभिर्यज्ञो विधिवृष्टो य इज्यते । यष्टव्यसित्येव मनः समाधाय स सात्त्विकः ॥ ११ ॥ अभिसंधाय त फलं दम्भार्थमपि चैव यः । इज्यते विद्धि तं यज्ञं राजसं चलमध्रुवम् ॥ १२ ॥ विधिहीनमसृष्टानं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १३ ॥ अफलेत्यादि परि इत्यन्तम् । मनः समाधाय निश्चयेनानुसंधाय । दम्भार्थमपीति- दंभ: लोको मामेवं- विधं जानीयादिति । विधिहीनमिति- शास्त्रोक्तक्रियाविही- नम्, तदेवासृष्टान्नादिभिविशेषणैवतन्यते ॥ ११-१३ ।। वेवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ १४ ॥ अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ।। १५ ।। मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत् तमो मानसमुच्यते ॥ १६ ॥ देवेत्यादि मानसमुच्यते इत्यन्तम् । आर्जवम्-ऋजुता । अगोप्यविषया धृष्टता सत्यमिति; अस्यैव स्वरूपनिरूपणं 'प्रियहितम्' इत्यनेन क्रियते । प्रियं च तत्काले; हितं च का- लान्तरे । ईदृशं च वाक्यं सत्यमित्युच्यते; न तु यथावृत्तकथन- 1. N लोके
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३११
एतत् पृष्ठम् अपरिष्कृतम् अस्ति