अष्टादशोऽध्यायः भासित [त्वात् ] वस्तुस्थित्या त्यागो नाम परब्रह्मविदां! सिद्धयसिद्धयादिषु समतया रागद्वेषपरिहारेण फलप्रेप्साविर- हेण' कर्मणां निर्वर्त्तनम् । अत एव आह- 'राजसं तामसं च त्यागं कृत्वा न कश्चित्' [त्याग ] फलसंबन्धः,' इति । सात्त्वि- कस्य तु त्यागात् (त्यागस्य) शास्त्रार्थपालनात्मकं फलम् । त्यक्तगुणग्रामग्रहस्य पुनर्मुनेः सत्यतः त्यागवाचो युक्तिरुपपत्ति- मती ।। ४-११ ।। अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ १२॥ अनिष्टमिति । अत्यागिनाम्-फलमयानाम् ।। १२ ।। अधुना व्यवहारदशायामपि पञ्चस्वपि कर्महेतुषु स्थितेषु बलादेवामी' अविद्यान्धाः पुमांसः स्वात्मन्येव सकलकर्तृभाव- भारमारोपयन्ति' । अतो निजयैव धिया आत्मानं बध्नन्ति, न तु वस्तुस्थित्या अस्य बन्धः इत्युपदिश्यते- पञ्चेमानि महाबाहो कारणानि निबोध मे । सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १३ ॥ अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधा च पृथक् चेष्टा दैवमेवात पंचमम् ॥ १४ ॥ 161 -1.B, N परमब्रह्म 2. B फलप्रेक्षा 265 3. 4. 5. 6. B न किंचित् S, B, N तन्मयानाम् B बलादमी B आरोपयन्त्येते
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३२६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति