अष्टादशोऽध्यायः ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी || श्लो. ३ (व्या) सांख्यगृह्या: - सांख्यानां पक्षमाश्रिताः, तद्गृहासक्ताः पशवः पशुतुल्या इति वा । ग्रह उपादाने इति धातोः 'पदास्वैरिबाह्यापक्ष्येषु च' (PA, III, i, 119) इति पक्ष्येऽर्थे क्यप् । 'गृह्यं गुदे ग्रन्थभेदे --- गृहासक्तमृगादौ ना ---' इति मेदिनी । मीमांसककञ्चुकानुप्रविष्टा इत्यस्य पण्डिता इत्युपरि तनेन व्यवहितेन संबन्धः । श्येनाद्येव तु हिंसा इत्यादि । अत एव 283 'तस्मादनङ्गभूतायां हिंसायामेतदुच्यते । उद्देशाच्च फलत्वेन श्येनादौ न विधीयते ।। भावनाविधिरप्येष फलांशाद्विनिवर्तते ।' इत्यादि श्लोकवार्तिकम् (I,i, 2, verses 235-36 ) । पार्थसारथि - मिश्रोि 'श्येनादौ हि विधीयमाने फलत्वेनोद्दिश्यते परं हिंसा -न चैतावता तस्या विधेयत्वम् । न हि “यत् विधिप्रमेयं तत् विधेयम्" इति विधेयलक्षणम्; किं तहि ? "यताप्रवृत्तः पुरुषो विधिवशात् प्रवर्तते तत् विधेयम्” । न च फलस्य तदस्ति; विधितः प्रागेव तत्र रागतः प्रवृत्तेरविधेयत्वम् तथा च साध- नेतिकर्तव्यतयोरेव विधेयत्वं, न फलस्य'
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३४४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति