अष्टादशोऽध्याय: 285 सत्यत इति । सत्यत्वमत्र अबाधितार्थज्ञानजनकत्वम् । तसिः षष्ठ्यर्थे । अबाधितज्ञानजनिकाया: त्यागवाच इति सामानाधिकरण्येनान्वयः । युक्तिः - योगः, प्रयोगः ।। श्लो. १२ (मू) प्रेत्येति । प्रेत्य स्थितानामत्यागिना- मित्यन्वयः ।। श्लो. १३-१७ (व्या) विविदिषा, अविविदिषा इति च्छेदः । बुद्धिगतम्, रजोलब्धवृत्तिकम्, पंचकपरिणामि इति त्रितयं कर्मशब्दार्थविशेषणम् । बुद्धिलक्षणः - बुद्धि: अन्तःकरणं लक्षणम्, चिह्नम् अवच्छेदकं वा यस्य सः कर्ता बुद्ध्यवच्छिन्नः ।। श्लो. १८ (मू) ज्ञानम् इत्यत्र ज्ञायते अनेनेति करण- व्युत्पत्तिरभिमता । व्यक्तीभविष्यतीदमनुपदमेव । (व्या) कर्मणि चोदनेति । सप्तम्यर्थो विषयत्वम् । त्रिविधा कर्मचोदनैव विविधः कर्मसंग्रहः इति मूलगत- पूर्वोत्तरार्धार्थयोरभेदान्वयम् 'येषां तेषाम्' इत्यध्याहारेण दर्श- यिष्यन् व्याख्यातुमारभते- तत्समये येषाम् तेषामिति । · अबोध मात्रनिष्ठत्वात् इति । न बोधः अबोध: असम्य- ग्ज्ञानं द्वैतज्ञानम्, तन्मावनिष्ठत्वात् इत्यर्थः । अथवा बोध-
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३४६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति