अष्टादशोऽध्यायः श्लो. २० (मू) ज्ञानमिति । पूर्वोक्तरीत्या ज्ञानकरण- मित्यर्थ: 287 श्लो. २१ (मू) यज्ज्ञानमिति । येन ज्ञानेनेत्यर्थः । अत्र करणे कर्तृत्वोपचार: 'एधांसि पचन्ति' इत्यादाविवेति श्रीमधु- सूदनसरस्वत्यः || श्लो. २२ (मू) यत्त्वकृत्स्नविदिति काश्मीरपाठः ।। श्लो. २६-२८ (व्या) तच्छीलस्तद्धर्मा तत्साधुकारी वा यो न भवति इत्यनहंबादी इत्यनेन णिनिनेति । एवं विलिखत आचार्यस्यापाततोऽयमभिप्राय इव णिनिप्रत्यय एतेष्वर्थेषु भवति इति । अत्रेदं चिन्त्यते - णिनेरिमेऽर्थास्तदा भवितु - मर्हन्ति यदि तद्विधायकस्य 'सुप्यजातौ णिनिस्ताच्छील्ये' (PA, III, ii, 78) इति सूत्रस्य 'आ क्वेस्तच्छीलतद्धर्मतत्सा- धुकारिषु' (PA, III, ii, 134 ) इत्यधिकारविषयत्वं ( १३४- १७७) स्यात्; नान्यथा । परन्तु पूर्वोपदशितणिनिविधायक- शास्त्रस्यैतदधिकारबहिर्भूततया आचार्यादृतः पन्था नातीव क्षोदक्षम इव । परन्तु 'सुप्यजातो' इति सूत्रस्य तदधस्तनेन 'साधुकारिण्युपसंख्यानम्' इति वात्तिकेन सहकवाक्यतया अर्थ- वर्णनस्यावश्यकत्वेन तच्छीले तत्साधुकारिणि च णिनेः प्राप्तौ तदर्थद्वयमध्यगतत्वेन उक्ताधिकारसूवादवगम्यमाने तद्धर्मार्थेऽपि णिनिः सन्दशन्यायेन भवति इति वा; काशिकायाम् पूर्वोक्त- वार्तिकस्य 'साधुकारिणि च' इति पाठदर्शनात् तत्रत्यचकार: अनुक्तं तद्धर्मार्थमपि समुच्चिनोति इति वा आचार्यस्याशय इति प्रतिभाति ।
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३४८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति