अष्टादशोऽध्यायः प्रसादजमित्यस्य मूलस्याथिकार्थ एव; स च आत्मबुद्धिपदयोः पूर्वापरीभावसूचितः । विग्रहस्तु आत्मा च बुद्धिश्च आत्मबुद्धी; प्रसादाज्जायत इति प्रसादजम्, आत्मबुद्धयोः प्रसादजमिति ॥ 289 श्लो. ४० ( व्या) परस्परेत्यादि । परस्परम् अङ्गाङ्गि- भावस्य बाध्यबाधकभावस्य समुच्चयस्य च समाहारः, तस्मा- दित्यर्थ: । वृत्तीत्यादि - वृत्तीनां क्रमस्य यौगपद्यादेच योगात् संबन्धात् इत्यर्थः । समुच्चयात् योगात् इति पञ्चमीद्वयस्या- अपरिसंख्येय- प्यर्थः प्रयोज्यत्वम् अपरिसंख्येयभेदे अन्वेति । भेदत्वात् इति - न परिसंख्येया भेदा येषां कर्तादीनां तेषां भावस्तस्मादिति विग्रहः । इयं च पञ्चमी विविधफलप्रसव- सामर्थ्यान्वयि हेतुत्वमाह । अत्र च प्रकरणे- त्रिगुणमविवेकि--. -प्रसवधर्मि । अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥ इति सांख्यकारिका (११-१२) अप्यनुसन्धेया । कर्मणां प्राक्सूत्रितं गहनत्वमिति चतुर्थाध्याये 'गहना कर्मणो गतिः' ( श्लो. १७) इति सामान्यतः अतिसंग्रहेणोक्तं दुर्जेयत्वम् । वितत्येति - विस्तृत्येत्यर्थ: । अव प्रकरणे इत्यादिः । - श्लो. ४१-६० (अ) ज्ञानबुद्धया ज्ञानम् उक्तदैव- संपन्निमित्तकं दैवं ज्ञानम्, तद्वासितया बुद्धया अन्तःकरणेन मनसा । तृतीया करणत्वे सहार्थयोगे वा । गीता- 19
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३५०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति