292 श्रीमद्भगवद्गीत। गीतार्थसंग्रहोपेता रुद्धत्वे सति प्रथमान्तपदोपस्थापितत्वात् । कर्ता चात्र भगवान् वेदव्यासः । अथवा उच्यते इति कर्मणि लकारानु- रोधेन उपसंहरन् इत्यस्य स्थाने उपसंहरता इति कर्तरि तृती- यान्तं पदं पठनीयमिति ॥ संग्रहश्लोके व्यापारमात्रस्थिते इति मातृका सूपलभ्य- मानः पाठः कुरुते इति धात्वर्थोत्थापितकर्ताकाङ्क्षोपशम- नाय व्यापारमानस्थितः इति विपरिणामितोऽस्माभिः । एवं च सत्त्वादिभिन्नां धियं भङ्क्त्वा, विष्णुं प्राप्य, स्वरसोद्यदि- न्द्रियनिजमावस्थितः, अर्थात् तत्त्वदर्शी, यत्किंचित् करोती- त्यन्वयः । अथवा अस्य इति चतुर्थपादस्थपदानुरोधेन य इति कर्तृवाचकपदमध्याहृत्य इन्द्रियनिजव्यापारमात्रे स्थिते इति विपरिणम्य विष्णुं प्राप्य निरुक्तव्यापारमात्रे स्थिते सति यो यत्किंचित् कुरुते तत् अस्येति अन्वयो वर्णनीयः ॥ आचार्यप्रशस्तौ चतुर्थश्लोके तद्गुप्तो यो महेश्वर इति । आदिशक्तिम् अम्बां रुद्रमहेश्वरगोप्तीमाह भगवती श्रुतिरपि- 'अवाम्ब! रुद्रमदिमह्यव देवं त्यम्बकम् ।' ( तै. सं. I, viii, 6 ) इति । ।। शिवम् ।। क्वाहं मन्दमतिः क्वेयं प्रक्रिया स्पन्दतंन्त्रगा। तत्वाप्यगाधो गूढार्थः श्रीमद्गीतार्थसंग्रहः ।। १ ।।
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३५३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति