संजय उवाच- प्रथमोऽध्यायः एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २३ ॥ भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ॥ २४ ॥ तत्त्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान् । आचार्यान् मातुलान् भ्रातॄन पुत्वान् पौत्रान् सखींस्तथा । श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ॥ २५ ॥ तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धनवस्थितान् । कृपया परयाऽऽविष्टः सीदमानोऽब्रवीदिदम् ॥ २६ ॥ अर्जुन उवाच - दृष्ट्वेमान स्वजनान् कृष्ण युयुत्न् समवस्थितान् । सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥ २७ ॥ बेपथुश्च शरीरे मे रोमहर्षश्च जायते । गाण्डीवं संसते हस्तात् त्वक् चैव परिदह्यते ॥ २८ ॥ न च शक्नोग्यवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥ २९ ॥ न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे। न कांक्षे विजयं कृष्ण न राज्यं न सुखानि च ॥ ३० ॥ किं नो राज्येन गोविन्द किं भोगर्जीवितेन वा ॥ ३१ ॥ गीता- 2
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/७०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति