पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

18 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता एवमर्थद्वयमाह - न ह्येवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमितः परम् ॥ १३ ॥ देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तव न शोचति (१) ॥ १४ ॥ न हीत्यादि । अहं हि नैव नासम्, अपि तु आसम्; एवं त्वम्, अमी च राजानः | आकारान्तरे च सति यदि शोच्यता, तहि कौमारात् यौवनावाप्तौ किमिति न शोच्यते? यो धीरः स व शोचति । धैर्यं च एतच्छरी रेऽपि यस्यास्था नास्ति तेन सुकरम् । अतस्त्वं धैर्यमन्विच्छ ॥ १३-१४ ॥ मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ १५ ॥ मावेति । अधीरास्तु मात्राशब्दवाच्यैरथैर्ये कृता: स्पर्शा इन्द्रियद्वारेणात्मनः सम्बन्धाः तत्कृता याः शीतोष्णसुखदुःखा- द्यवस्था अनित्याः, तास्वपि शोचन्ति न त्वेवं धीरा इत्याह । अथवा माताभिरिन्द्रियैरेषां स्पर्शा न तु साक्षात् परमात्मना । आगमः, उत्पत्तिः; अपाय:, विनाशः एतद्युक्तांस्तितिक्षस्व, सहस्व ।। १५ ।॥ 1. N धेर्ये च 2. S - • वाच्यैरथ ये 3. K णात्मना 4. B,N - परमात्मनः 5. B एतद्युक्तम् PENT