श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता यस्य सर्व इति । यस्य सर्वे व्यापारा: आशीरूपेण बन्ध- नेन व युक्ताः । अभिलाषो हि बन्धकः ॥ ५० ॥ 30 दूरेण ह्यवरं कर्म बुद्धियोग द्वनञ्जय | बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ५१ ॥ दूरेण हीति । बुद्धियोगात्किल हेतोः अवरं दुष्टफल- 'युक्त 2 रिक्तं कर्म दूरीभवति । अतस्तादृश्यां बुद्धौ शरणम- न्विच्छ प्रार्थयस्व, येन सा बुद्धिः लभ्यते ॥ ५१ ॥ Bec kASha Tunis a novel exegen's बुद्धियुक्तो जहातीमे उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ ५२ ।। बुद्धियुक्त इति । उभे इति परस्परव्यभिचारं दर्शयति । तस्माद्योगायेति । यथा हि सुकृतदुष्कृते नश्यत. 4, तथाकरणमेव परमं कौशलमिति भावः ॥ ५२ ।। कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५३ ॥ कर्मजमिति । योगबुद्धियुक्ताः कर्मणां फलं त्यक्त्वा जन्म- बन्धं त्यजन्ति ब्रह्मसत्तामाप्नुवन्ति ॥ ५३ ॥ 1. B,N omit न 2. K omits gaa B omits fra N - दुष्कृते न नश्यतः 3. 4. 5. S, K अवाप्नुवन्ति
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/९१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति