द्वितीयोऽध्यायः यदा ते मोहकलिलं बुद्धिर्म्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ ५४ ॥ श्रुतिविप्रतिपन्ना ते यथा स्थास्यति निश्चिता । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५५ ॥ यदा ते इति । श्रुतीति । तत च योगबुद्धिप्राप्त्यवस तव स्फुटमेवेदमभिज्ञानम्-श्रोतव्यस्य । श्रुतस्य अभिलष्यमाण- स्य च 2 आगमस्य उभयस्यापि निर्वेदभावत्वम् । अनेन चेद- मुक्तम्- अविद्यापद निपतितप्रमानुग्राहकशास्त्रश्रवण संस्कार- विप्रलम्भमहिमा अयं यत् तवास्थाने कुलक्षयादिदोषदर्शनम् । तत्तु तथाथासन बहुमान विगलने विगलिष्यति इति ॥ ५४-५५ ॥ अर्जुन उवाच - स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थिरधीः किं प्रभाषेत किमासीत व्रजेच्च किम् ॥ ५६ ।। स्थितप्रज्ञस्येति । 'यदा स्थास्यति बुद्धिः' इत्यनेन वचसा समाधिस्थस्य योगिनो यः स्थितप्रज्ञशब्द: ' तत्व वाचक उक्त- स्तस्य का भाषा, किं प्रवृत्तिनिमित्तम् ? भाष्यते येन निमित्तेन शब्दैरर्थ इति कृत्वा । योगिनः स्थितप्रज्ञशब्द: ' किं रूढया 1. Somits श्रोतव्यस्य 2. 3. 31 Nar instead of a S, B, K -भाक्त्वम् B,N अविद्यामद स्थित and स्थिर are found often interchanged in CA. 6. B.N omit शब्द: 4. 5,
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/९२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/5/5a/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE_%28%E0%A4%85%E0%A4%AD%E0%A4%BF%E0%A4%A8%E0%A4%B5%E0%A4%97%E0%A5%81%E0%A4%AA%E0%A5%8D%E0%A4%A4%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE%29.djvu/page92-821px-%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE_%28%E0%A4%85%E0%A4%AD%E0%A4%BF%E0%A4%A8%E0%A4%B5%E0%A4%97%E0%A5%81%E0%A4%AA%E0%A5%8D%E0%A4%A4%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE%29.djvu.jpg)