पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थिरधीर्मुनिरुच्यते ॥ ५८ ॥ दुःखेष्विति । सुखदुःखयोर्यस्य रागद्वेषरहिता वृत्तिः स मुनिरव स्थितप्रज्ञः नान्यः ॥ ५८ ॥ युक्तं चैतत् यतः- यः सर्ववानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५९ ॥ 33 यः सर्वत्रेति । शुभाशुभप्राप्तौ तस्याह्लादतापौ च भवतः ॥ ५९ ॥ यदा संहरते चायं कूर्मोऽङ्गानीव सर्वतः । इन्द्रियाणीन्द्रियार्थेभ्यः स्थितप्रज्ञस्तदोच्यते || ६० || यदा संहरते इति । न चास्य पाचकवद्योगरूढत्वम् । यदा यदा किलायमिन्द्रियाणि संहरते आत्मन्येव, कूर्म इवा- ङ्गानि क्रोडीकरोति विषयेभ्य:, विषयान्निवार्य तदा तदा स्थिरप्रज्ञः । यद्वा इन्द्रियार्थेभ्य: प्रभृति इन्द्रियाणि आत्मनि संहरते विषयेन्द्रियात्मकं सर्वम् आत्मसात्कुरुते ।। ६० ।। तनु तपस्वितोऽपि कथं स्थितप्रज्ञशब्दो न प्रवर्तते? उच्यते- 1. S-विरहिता, 2. S विषयेभ्यः विषयार्थस्यैव विषयानिवार्य 3. K -न्द्रियादिकम् 4. B,N आसतं instead सर्वम् गीता 3