द्वितीयोऽध्यायः क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ।। ६५ ।। ध्यायत इति । क्रोधादिति । तपस्विनो विषयत्याग एव विषयग्रहणे पर्यवस्यति । ध्यात्वा हि ते त्यजन्ते । ध्यान- काले एव च 1 संगादयः उपजायन्ते इति अनपायो विषयत्यागः स्थिरप्रज्ञस्य [एव] ॥ ६४-६५ ॥ रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्वरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ ६६ ॥ प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ ६७ ॥ नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ।। ६८ ।। इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायुनवमिवाम्भसि ॥ ६९ ॥ तस्माद्यस्य महाबाहो निगृहीतानि सर्वतः इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ७० ॥ रागद्वेषेत्यादि प्रतिष्ठितेत्यन्तम् । यस्तु मनसो नियामकः स विषयान् सेवमानोऽपि न क्रोधादिकल्लोलैरभिभूयते इति स एव स्थितप्रज्ञो योगीति तात्पर्यम् ।। ६६-७० ॥ 35 1. S omits च 2. K अनुपायो
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/९६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति