पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१००१

एतत् पृष्ठम् परिष्कृतम् अस्ति
९४२
श्रीमद्वाल्मीकिरामायाणे उत्तरकाण्डे


नवमः सर्गः

रावणाद्युत्पत्तिः

कस्यचित्त्ववथ कालस्य सुमाली नाम राक्षसः । रसातलान्मर्त्यलोकं सर्वं वै विचचार ह ॥१॥
नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः । कन्या दुहितरं गृह्म विना परमिव श्रियम् ॥२॥
राक्षसेन्द्रः स तु तदा विचरन् वै महीतलम् । तदापश्यत् स गच्छन्तं पुष्पकेण धनेश्वरम्॥३॥
गच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम् । तं दृष्ट्वामरसंकाशं स्वच्छन्दं तपनोपमम्॥४॥
रसातलं प्रविष्टः सन् मर्त्यलोकात् सविस्मयः । इत्येवं चिन्तयामास राक्षसानां महामतिः॥५॥
किं कृतं श्रेय इत्येवं वर्धेमहि कथं वयम् । अथाब्रवीत् सुतां रक्षः कैकसीं नाम नामतः॥६॥
पुत्रि प्रदानकालोऽयं यौवनं तेऽतिवर्तते । प्रत्याख्यानाञ्च भीतैस्त्वं न वरैः प्रतिगृह्यसे ॥७॥
त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः । त्वं हि सर्वगुणोपेता श्री साक्षादिव पुत्रिके ॥८॥
कन्यापितृत्वं दुःखं हि सर्वेषां मानकाक्षिणाम्। न ज्ञायते च कः कन्यां वरयेदिति कन्यके ॥९॥
मातुः कुलं पितृकुलं यत्र चैव प्रदीयते । कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ॥१०॥
सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् । भज विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् ॥११॥
ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः। तेजसा भास्करसमो यादृशोऽयं धनेश्वरः ॥१२॥
सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात्। तत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते॥१३॥
एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः । अमिहोत्रमुपातिष्ठञ्चतुर्थ इव पावकः ॥१४॥
अविचिन्त्य तु तां वेलां दारुणां पितृगौरवात्। उपमृत्याग्रतस्तस्य चरणाधोमुखी स्थिता॥१५॥
विलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी। स तु तां प्रेक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् ॥१६॥
अब्रवीत् परमोदारो दीप्यमानां स्वतेजसा । भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता ॥१७॥
किं कार्य कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने।एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत्॥१८॥
आत्मप्रभावेण मुने ज्ञातुमर्हसि मे मतम्। किं तु मां विद्धि ब्रह्मर्षे शासनात् पितुरागताम् ॥१९॥
कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि । स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह ॥२०॥
विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् । सुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि ॥२१॥
दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता। शृणु तसात् सुतान् भद्रे यादृशाञ्जनयिष्यसि॥२२॥
दारुणान् दारुणाकारान् दारुणामिजनप्रियान् । प्रसविष्यसि सुश्रोणि राक्षसान् क्रूरकर्मणः ॥२३॥
सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः । भगवनीदृशान् पुत्रांस्त्वतोऽहं ब्रह्मवादिनः ॥२४ ॥
नेच्छामि सुदुराचारान् प्रसादं कर्तुमर्हसि । कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः ॥२५ ॥