पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१००३

एतत् पृष्ठम् परिष्कृतम् अस्ति
९४४
 

श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डेz

दशमः सर्गः

रावणादिवरदानम्

अथाब्रवीन्मुनिं रामः कथं ते भ्रातरो वने। कीदृशं तु तदा ब्रह्मंस्तपस्तेपुर्महाबलाः ॥ १॥
अगस्त्यस्त्वब्रवीत्तत्र रामं सुभीतमानसम् । तांस्तान् धर्मविधीस्तत्र भ्रातरस्ते समाविशन् ॥२॥
कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः । तताप ग्रीष्मकाले तु पञ्चाग्नीन् परितः स्थितः॥३॥
मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत । नित्यं च शिशिरे काले जलमध्यप्रतिश्रयः ॥४॥
एवं वर्षसहस्राणि दश तस्यातिचक्रमुः । धर्मे प्रयतमानम्य सत्पथे निष्ठितस्य च ॥५॥
विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः । पञ्च वर्षसहस्राणि पादेनैकेन तस्थिवान् ॥६॥
समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः । पपान पुष्पवर्षं च क्षुभिताश्चापि देवनाः ॥७॥
पञ्च वर्षसहस्राणि सूर्यं चैवान्ववर्तत । तस्थौ चोर्ध्वशिरो बाहुः स्वाध्यायधृतमानसः ॥८॥
एवं विभीषणस्यापि स्वर्गस्थम्येव नन्दने। दश वर्षसहस्राणि गतानि नियतात्मनः ॥९॥
दश वर्षसहस्राणि निराहागे दशाननः । पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः ॥१०॥
एवं वर्षसहस्राणि नव तस्यातिचक्रमुः। गिरांसि नव चाप्यम्य प्रविष्टानि हुताशनम् ॥११॥
अथ वर्षसहस्रे तु दशमे दशमं शिरः । छेत्तुकामे दशग्रीवे प्राप्तस्तत्र पितामहः ॥१२॥
पितामहन्तु सुप्रीतः सार्ध दैवैरुपस्थितः । तव तावद्दशग्रीव प्रीतोऽस्मीत्यभ्यभाषत ॥१३॥
शीग्रं वरय धर्मज्ञ वरो यस्तेऽभिकाङ्क्षितः। तं ते कामं करोम्यद्य न वृथा ते परिश्रमः॥१४॥
अथाब्रवीद्दशग्रीवः प्रहृष्टेनान्तरात्मना । प्रणम्य शिरसा देवं हर्षगद्गदया गिरा ॥ १५॥
भगवन् प्राणिनां नित्यं नान्यत्र मरणाद्भयम् । नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे ॥१६॥
एवमुक्ते तदा ब्रह्मा दशग्रीवमुवाच ह । नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे ॥१७॥
एवमुक्त तदा राम ब्रह्मणा लोककर्तृणा । दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः ॥१८॥
सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् । अवध्योऽहं प्रजाध्यक्ष देवतानां च शाश्वत ॥१९॥
न हि चिन्ता ममान्येषु प्राणिष्वमर पूजित । तृणभूता हि ते मन्ये प्राणिनो मानुषादयः ॥२०॥
एवमुक्तम्तु धर्मात्मा दशग्रीवेण रक्षसा। उवाच वचनं देवः सह देवैः पितामहः ॥ २१॥
भविष्यत्येवमेतत्ते वचो राक्षसपुङ्गव । एवमुक्त्या तु तं राम दशग्रीवं पितामहः ॥२२॥
शृणु चापि वरो भूयः प्रीतस्येह शुभो मम । हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ ॥ २३॥
पुनस्तानि भविष्यन्ति तथैव तव राक्षस । वितरामीह ते सौम्य वरं चान्यं दुरासदम् ॥२४॥
छन्दतस्तव रूपं च मनसा यद्यथेप्सितम् । भविष्यति न संदेहो मद्वरात्तव राक्षस ॥ २५॥
एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः । अग्नौ हुतानि शीर्षाणि पुनस्तान्युदितानि वै ॥२६॥
एवमुस्वा तु तं राम दशग्रीवं पितामहः । विभीषणमथोवाच वाक्यं लोकपितामहः ॥२७॥