पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१००७

एतत् पृष्ठम् परिष्कृतम् अस्ति
९४८
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे


द्वादशः सर्गः

रावणादिविवाहः


राक्षसेन्द्रोऽभिषिक्तस्तु प्रातृभ्यां सहितस्तदा। ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् ॥१॥
स्वसारं कालकेयाय दानवेन्द्राय राक्षसीम् । ददौ शूर्पणखां नाम विद्युज्जिह्वाय नामतः ॥२॥
अथ दत्त्वा स्वयं रक्षो मृगयामटते स्म तत् । तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् ॥३॥
कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः। अपृच्छत् को भावानेको निर्मानुष्यमृगे वने ॥४॥
अनया मृगशाबाक्ष्या किमर्थं सह तिष्ठसि । मयस्त्वथाब्रवीद्राम पृच्छन्तं तं निशाचरम् ॥५॥
श्रयतां सर्वमाख्यास्ये यथावृत्तमिदं मम । हेमा नामाप्सरा तात श्रुतपूर्वा यदि त्वया ॥६॥
दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः । तस्यां सक्तमनास्तात दश वर्षशतान्यहम् ॥७॥
सा च दैवतकार्येण गता वर्षांश्चतुर्दश । तस्याः कृते च हेमायाः सर्वं हेममयं पुरम् ॥८॥
वज्रवैदूर्यचित्रं च मायया निर्मितं मया । तत्राहमवसं दीनस्तया हीनः सुदुःखितः ॥९॥
तस्मात् पुरादुहितरं गृहीत्वा वनमागतः । इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ॥१०॥
भर्तारमनया सार्धमस्याः प्राप्तोऽस्मि मार्गितुम् । कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम्॥११॥
कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति । पुत्रद्वयं ममाप्यस्यां भार्यायां संबभूव ह ॥१२
मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः । एवं ते सर्वमाख्यातं यथा तत्त्वेन पृच्छतः ॥१३॥
त्वामिदानी कथं तात जानीयां को भवानिति । एवमुक्तं तु तद्रक्षो विनीनमिदमब्रवीत् ॥१४॥
अहं पौलम्त्यतनयो दशग्रीवश्च नामतः । मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणोऽभवत् ॥१५॥
एवमुक्तस्तदा राम राक्षसेन्द्रण दानवः । महर्षेस्तनयं ज्ञात्वा मयो हर्षमुपागतः ॥१६॥
दातुं दुहितरं तस्मै रोचयामास यत्र वै । करेण तु करं तस्या ग्राहयिन्वा मयस्तदा ॥१७॥
प्रहसन् प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः । इयं ममात्मजा राजन् हेमयाप्सरसा धृता ॥१८॥
कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् । बाढमित्येव तं राम दशग्रीवोऽभ्यभाषत ॥१९॥
प्रज्वाल्य तत्र चैवाग्निमकरोत् पाणिसंग्रहम् । स हि तस्य मयो राम शापाभिज्ञस्तपोधनात् ॥२०॥
विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् । अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् ॥२१॥
परेण तपसा लब्धां जनिवाँल्लक्ष्मणं यया । एवं स्वीकृतदारो वै लङ्काया ईश्वरः प्रभुः ॥२२॥
गत्वा तु नगरी भार्ये भ्रातृभ्यां समुपाहरत् । वैरोचनस्य दौहित्री वज्रज्वालेति नामतः ॥२३॥
तां भार्यां कुम्भकर्णस्य रावणः समकल्पयत् । गन्धर्वराजस्य सुतां शैलूपस्य महात्मनः ॥२४॥
सरमां नाम धर्मज्ञां लेभे भायों विभीषणः । तीरे तु सरसो वै तु संजज्ञे मानसस्य हि ॥२५॥
सरस्तदा मानसं तु ववृधे जलदागमे । मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः ॥ २६॥