पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
९५९
एकोनविंशः सर्गः

त्वयि मुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः । वरुणस्त्वब्रवीद्धंसं गङ्गातोयविहारिणम्॥१९॥
श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर । वर्णो मनोहरः सौम्य' चन्द्रमण्डलसन्निमः॥३०॥
भविष्यति तबोदग्रः शुद्धफेनसमप्रभः । मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि॥३१॥
प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् । हंसानां हि पुरा राम नीलवर्णः सपाण्डरः ॥३२॥
पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः । अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम् ॥३३॥
हैरण्य संप्रयच्छामि वर्णं प्रीतस्तवाप्यहम् । सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् ॥ ३४॥
एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति । एवं दत्त्वा वरांस्तेभ्यस्तस्मिन् यज्ञोत्सवे सुराः॥३५॥
निवृत्ताः सह राज्ञा ते पुनः स्वभवनं गताः ॥

इत्यार्षे श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

उत्तरकाण्डे मरुत्तविजयो नाम अष्टादश: सर्ग:



एकोनविंशः सर्गः

अनरण्यशापः

अथ जित्वा मरुतं स प्रययौ राक्षसाधिपः । नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ॥१॥
समासाद्य तु राजेन्द्रान महेन्द्रवरुणोपमान् । अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ॥२॥
निर्जिताः स्मेति वा ब्रूत एष मे हि सुनिश्चयः । अन्यथा कुर्वतामेवं मोक्षो नैवोपपद्यते ॥३॥
ततस्त्वभीरवः प्राज्ञाः पार्थिवा धर्मनिश्चयाः । मन्त्रयित्वा ततोऽन्योन्यं राजानः सुमहाबलाः॥४॥
निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरवलं रिपोः । दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः ॥५॥
एते सर्वेऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः । अथायोध्यां समासाद्य रावणो राक्षसाधिपः ॥६॥
सुगुप्तामनरण्येन शक्रेणेवामरावतीम् । स तं पुरुषशार्दूलं पुरन्दरसमं बले ॥७॥
प्राह राजानमासाद्य युद्धं देहीति रावणः । निर्जितोऽस्मीति वा ब्रूहि त्वमेवं मम शासनम् ॥८॥
अयोध्याधिपतिस्तस्य श्रुत्वा पापात्मनो वचः । अनरण्यम्तु संक्रुद्धो राक्षसेन्द्रमथाब्रवीत् ॥९॥
दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया । संतिष्ठ क्षिप्रमायतो भव चैवं भवाम्यहम् ॥१०॥
अथ पूर्वं श्रुतार्थेन निर्जितं सुमहद्बलम् । निष्कामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम् ॥११॥
नागानां दशसाहस्रं वाजिनां नियुतं तथा । स्थानां बहुसाहसं पत्तीनां च नरोत्तम ॥१२ ॥
महीं संछाध निष्क्रान्तं सपदातिरथं रणे। ततः प्रवृत्तं सुमुहद्युद्धं युद्धविशारद ॥१३॥
अनरण्यस्य नृपते राक्षसेन्द्रस्य चाद्भुतम् । तद्रावणबलं प्राप्य बलं तस्य महीपतेः ॥ १४॥
प्राणश्यत तदा सर्व हव्यं हुतमिवानले । युद्धा च सुचिरं कालं कृत्वा विक्रममुत्तमम् ॥१५॥
प्रज्वलन्तं समासाद्य क्षिप्रमेवावशेषितम् । प्राविशत् संकुलं तत्र शलभा इव पावकम् ॥ १६॥