पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०२

एतत् पृष्ठम् परिष्कृतम् अस्ति

निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः । नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन ॥ १५
शनैर्वियुज्यते सन्ध्या नभो नेत्रैरिवावृतम् । नक्षत्रतारागहनं ज्योतिर्भिरवभासते ।। १६
उत्तिष्ठति च शीतांशुः शशी लोकतमोनुदः । ह्रादयन् प्राणिनां लोके मनांसि प्रभया स्वया ॥ १७
नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः । यक्षराक्षससङ्घाश्च रौद्राश्च पिशिताशनाः ।। १८
एवमुक्त्वा महातेजा विरराम महामुनिः । साधु साध्विति तं सर्वे मुनयो ह्यभ्यपूजयन् ॥ १९
कुशिकानामयं वंशो महान् धर्मपरः सदा । ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः॥ २०
विशेषेण भवानेव विश्वामित्रो महायशाः । कौशिकी च सरिच्छ्रेष्ठा कुलोद्द्योतकरी तव ।। २१
इति तैर्मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः । निद्रामुपागमच्छ्रीमानस्तंगत इवांशुमान् ॥ २२
रामोऽपि सहसौमित्रिः किंचिदागतविस्मयः । प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते ।। २३
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
बालकाण्डे विश्वामित्रवंशवर्णनं नाम चतुस्त्रिंशः सर्गः

पञ्चविंशः सर्गः
उमागङ्गावृत्तान्तसङ्क्षेपः
उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः । निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत ।। १
सुप्रभाता निशा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय ।। २
तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम् । गमनं रोचयामास वाक्यं चेदमुवाच ह ।। ३
अयं शोणः शुभजलोऽगाधः पुलिनमण्डितः । कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम् ।। ४
एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम् । एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः ॥ ५
ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा । जाह्नवी सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ।। ६
तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् । बभूवुर्मुनयः सर्वे मुदिताः सहराघवाः ।। ७
तस्यास्तीरे तदा सर्वे चक्रुर्वासपरिप्रहम । ततः स्नात्वा यथान्यायं संतर्प्य पितृदेवताः ।। ८
हुत्वा चैवाग्निहोत्राणि प्राश्य चानुत्तमं हविः । विविशुर्जाह्नवीतीरे शुचौ मुदितमानसाः॥ ९
विश्वामित्रं महात्मानं परिवार्य समन्ततः । संप्रहृष्टमना रामो विश्वामित्रमथाब्रवीत् ।। १०
भगवन् श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् । त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ।। ११