पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६७
 

पुत्राः पौत्राश्च निष्कामान् गौश्च पुष्कर एव च । ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः॥२९॥
युङ्क्त्वा रथान् कामगमानुद्यद्भास्कारवर्चसः । ततो युद्धं समभवदारुणं रोमहर्षणम् ॥३०॥
सलिलेन्द्रस्य पुत्राणां रावणस्य च धीमतः । अमात्यैश्च महावीर्यैर्दशग्रीवस्य रक्षसः ॥३१॥
वारुणं तहलं कृत्स्नं क्षणेन विनिपातितम् । समीक्ष्य स्ववलं संख्ये वरुणस्य सुतास्तदा ॥३२॥
अर्दिताः शरजालेन निवृता रणकर्मणः । महीतलगतास्ते तु रावणं दृश्य पुष्पके ॥३३॥
आकाशमाशु विविशुः स्पन्दनैः शीघ्रगामिभिः । महदासीत्ततस्तेषां तुल्यस्थानमवाप्य तत् ॥३४॥
आकाशयुद्धं तुमुलं देवदानवयोरिव । ततस्ते रावणं युद्धे शरैः पावकसंनिभैः ॥३५॥
विमुखीकृत्य संतुष्टा विनेदुर्विविधान् रवान् । ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् ॥३६॥
त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् । तेन ते दारुणा युद्धे कामगाः पवनोपमाः॥३७॥
महोदरेण गदया हता वै प्रययुः क्षितिम् । तेषां वरुणपुत्राणां हत्वा योधान् हयान्शतान् ॥३८॥
मुमोचाशु महानादं विरथान् प्रेक्ष्य तान् स्थितान् । ते तु तेषां रथाः साश्वाः सह सारथिमिर्हतैः॥३९॥
महोदरेण निहताः पतिताः पृथिवीतले । ते तु त्यक्त्वा स्थान् पुत्रा वरुणस्य महात्मनः ॥४०॥
आकाशे विष्ठिताः शूराः स्वप्रभावान विव्यथुः । धनूंषि कृत्वा सज्जानि विनिर्मिध महोदरम् ॥४१॥
रावणं समरे क्रुद्धाः सहिताः समभिद्रवन्। सायकैश्चापविभ्रष्टैर्व्रज्रकल्पैः सुदारुणैः ॥४२॥
दारयन्ति स्म संक्रुद्धा मेघा इव महागिरम् । ततः क्रुद्धो दशग्रीवः कालामिरिव निर्गतः ॥४३॥
शरवर्षैर्महाघोरैस्तेषां मर्मस्वताडयत् । ततस्तेनैव सहसा सीदन्ति स्म पदातयः ॥४४॥
मुसलानि विचित्राणि ततो भल्लशतानि च । पट्टसांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा ॥४५॥
पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः । अपविद्धास्तु ते वीरा विनिष्पेतुः पदातयः॥४६॥
महापङ्कमिवासाद्य कुञ्जराः षष्टिहायनाः। सीदमानान् सुतान् दृष्ट्वा विह्वलान् सुमहौजसः ॥४७॥
ननाद रावणो हर्षान्महानम्बुधरो यथा । ततो रक्षो महानादान् मुक्ता हन्ति स्म वारुणान् ॥४८॥
नानाप्रहरणोपेतैर्धारापातैरिवाम्बुदः । ततस्ते विमुखाः सर्वे पतिता धरणीतले ॥४९॥
रणात् स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः। तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम् ॥५०॥
रावणं त्वब्रवीन्मन्त्री प्रभासो नाम वारुणेः । गतः खलु महारजो ब्रह्मलोकं जलेश्वरः ॥५१॥
गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि । तत् किं तव वृथा वीर परिश्रम्य गते नृपे ॥५२॥
ये तु सन्निहिता वीराः कुमारास्ते पराजिताः । राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः॥५३॥
हर्षान्नादं विमुञ्चन् वै निष्क्रान्तो वरुणालयात् । आगतस्तु पथा येन तेनैव विनिवृत्य सः ॥५४॥
लधामभिमुखो रक्षो नभःस्थलगतो ययौ ॥५५॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्ंविशतिसहस्रिकायां संहितायाम्

उत्तरकाण्डे वरुणजयो नाम त्रयोविंशः सर्ग: