पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रक्षिप्तेषु पञ्चमः सर्गः रूपान् महौजसः ॥३८॥ चतुर्भुजान् महो- त्साहांस्तत्रापश्यत् स रावणः । तान् दृष्ट्वाथ दशग्रीव ऊर्ध्वरोमा बभूव ह ||३९|| स्वयंभुवा दत्तवरस्ततः शीघ्रं विनिर्ययौ । अथापश्यत् परं तत्र भुजङ्गशयने स्थितम् ||४०|| पाण्डरेण महार्हेण कौस्तुभेन विराजितम् | शेते स पुरुषम्तन्त्र पावकेनावकुण्ठितः ॥४१॥ दिव्य- खगनुलेपी च दिव्याभरणभूषितः । दिव्या म्बरधरा साध्वी त्रैलोक्यस्य विभूषणम् ॥४२॥ वालव्यजनहस्ता च देवी तत्र व्यवस्थिता । लक्ष्मीर्बहिः सपद्मा वै भ्राजन्ती लोकसुन्दरी ॥१३॥ प्रहृष्टः स तु लङ्केशो दृष्ट्वा तां चारु- हासिनीम् | जिघृक्षुः स तदा साध्वी सिंहा- सनमुपाश्रिताम् ॥४४॥ विना तु सचिवैम्तत्र रावणो दुर्मनिम्तदा । हस्तैर्ग्रहीतुं तामैच्छन्ना- न्मथेन वशीकृतः ॥४५॥ सुप्तमाशीविषं यद्व- द्रावण: कालचोदितः । अथ सुप्तो महाबाहुः पावकेनावकुण्ठितः ||१६|| ग्रहीतुकामं तं ज्ञात्वा व्यपविध्य पटं तदा । जहासाचैर्भृशं देवस्तं दृष्ट्वा राक्षसाधिपम ॥ ४७ ॥ तेजसा तस्य संदीप्तो रावणो लोकरावणः | प्राणवा- तेन दीर्घेण तम्मिन् राम रसानले ||४८|| कृत्तमूलो यथा शाखी निपपात महीतले । पतितं राक्षसं ज्ञात्वा वचनं चेदमब्रवीत ॥४९॥ उत्तिष्ट राक्षसश्रेष्ठ मृत्युस्ने नाद्य विद्यते । प्रजापतिवरो रक्ष्यो येन जीवसि रावण ॥५०॥ गच्छ रावण विशब्धं नात्र वै मरणं तव | लब्धसंज्ञो मुहूर्तेन राक्षसो भीमविक्रमः ॥५१॥ तं तु दृष्ट्वा महात्मानं रावणो भयमाप सः | एवमुक्तस्तदोत्थाय रावणो देवकण्टक ॥५२॥ रोमहर्षणमापन्नो ह्यब्रवीत्तं महामुनिम् । को 123 ९७७ भवाञ्शौर्यसंपन्नो युगान्तानलसन्निभः ॥५३॥ ब्रूहि त्वं देवदेवो वा सर्वदेहेषु सुस्थितः । एवमुक्तः स तेनाथ रावणेन दुरात्मना ॥५४॥ प्रत्युवाच हसन् देवो मेघगम्भीरया गिरा | किं त्वं मया दशग्रीव वध्योऽसि न चिरादिह ॥५५॥ एवमुक्ती दशग्रीवः प्राञ्जलिर्वाक्य- मब्रवीत् । प्रजापतेन्तु वचनान्नाहं मृत्युवशं गतः ॥५६॥ स न जातो जनिभ्यो वा मत्तु- ल्यो वा सुरेष्वपि । प्रजापतिवरं यो हि लङ्घये- द्वीर्यमाश्रितः ||५७॥ न तत्र परिहारोऽम्ति प्रयत्नश्यापि दुर्लभः | त्रैलोक्ये तं न पश्यामि यम्तं कुर्याद्वरं वृथा ॥५८॥ अमरो वा सुरश्रेष्ठ तेन मां नाविशद्भयम् । अथापि च भवेन्मू- त्युम्त्वत्तो मे नान्यतः प्रभो ॥५९॥ यशस्यं लापनीयं च त्वतो मे मरणं त्विदम् । अथापश्यत्तम्य गात्रे रावणो भीमविक्रमः ||६ ॥ देवदेवम्य सकलं त्रैलोक्यं सचराचरम् | आदि- त्या वसवो रुद्रा मरुतोऽथाश्विनावपि ॥ ६१ ॥ सिद्धाश्च पितरश्चैव यमो वैश्रवणस्तथा । समुद्रा गिरयो नद्यो विद्या वेदास्त्रयोऽमयः || ६२ || ग्रहास्तारागणा व्योम साध्या गन्धर्वचारणाः | महर्पयो वेदविदो गरुडोऽथ भुजंगमाः||६३॥ये चान्ये संस्थिता देवा दैत्यदानवराक्षसाः। गात्रेषु शयनस्थस्य दृश्यन्ने सूक्ष्ममूर्तयः ||६४॥ आह रामोऽथ धर्मात्मा ह्यगस्त्यं मुनिसत्तमम् । द्वीप- स्थः पुरुषः कोऽसौ तिलः कोट्यश्च ताश्च काः || ६५|| शयानः पुरुषः कश्चिदैत्यदानवदर्पहा । रामस्य वचनं श्रुत्वा खगस्त्यो वाक्यमब्रवीत् || ६६|| श्रूयतामभिधास्यामि देवदेवः सनातनः। भगवान् कपिलो राम द्वीपम्थो नर उच्यते ||६७ || स वै नारायणो देवः शङ्खचक्रगदाधरः ।