पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
९८०
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे


पञ्चविंशः सर्गः

मधुवधवारणम्

स तु दत्त्वा दशग्रीवो वनं घोरं खरस्य तत्।भगिनीं च समाश्वास्य हृष्टः स्वस्थतरोऽभवत् ॥१॥
ततो निकुम्भिला नाम लङ्कोपवनमुत्तमम् । तद्राक्षसेन्द्रो बलवान् प्रविवेश सहानुगः ॥२॥
ततो यूपशताकीर्णं सौम्यचैत्योपशोभितम् । ददर्श विष्ठितं यज्ञं श्रिया संप्रज्वलन्निव ॥३॥
ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् । ददर्श स्वसुतं तत्र मेघनादं भयावहम् ॥४॥
तं समासाद्य लङ्केशः परिष्वज्याथ बाहुभिः । अब्रवीत् किमिदं वत्स वर्तसे ब्रूहि तत्त्वतः॥५॥
उशना त्वब्रवीत्तत्र यज्ञसंपत्समृद्धये । रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ॥६॥
अहमाख्यामि ते राजञ्श्रूयतां सर्वमेव नत् । यज्ञास्ते सप्त पुत्रेण प्राप्ताः सुबहुविस्तराः॥७॥
अग्निष्टोमोऽश्वमेधश्च यज्ञो बहुसुवर्णकः । राजसूय स्तथा यज्ञो गोमेधो वैष्णवस्तथा ॥८॥
माहेश्वर प्रवृत्ते तु यज्ञे पुंभिः सुदुर्लभे । वरांस्ते लब्धवान् पुत्रः साक्षात् पशुपतेरिह ॥९॥
कामगं स्यन्दनं दिव्यमन्नरिक्षचरं ध्रुवम् । मायां च तामसीं नाम यया संपद्यते नमः ॥१०॥
एनया किल संग्रामे मायया राक्षसेश्वर । प्रयुक्तया गतिः शक्या न हि ज्ञातुं सुरासुरैः ॥११॥
अक्षयाविषुधी बाणैश्चापं चापि मुदुर्जयम् । अस्त्रं च बलवद्राजञ् शत्रुविध्वसनं रणे ॥१२॥
एतान् सर्वान् वरॉल्लब्ध्वा पुत्रम्तेऽयं दशानन । अद्य यज्ञसमाप्तौ च त्वां दिदृक्षुः स्थितो ह्यहम्॥१३॥।
ततोऽब्रवीद्दशग्रीवो न शोभनमिदं कृतम् । पूजिताः शत्रवो यम्माद्द्रव्यैरिन्द्रपुरोगमाः ॥१४॥
एहीदानी कृतं विद्धि सुकृतं तन्न संशयः। आगच्छ सौम्य गच्छामः स्वमेव भवनं पति ॥१५॥
ततो गत्वा दशग्रीवः सुपुत्रः सविभीषणः । स्त्रियोऽअवतारयामस सर्वास्ता बाषपगद्गदाः ॥१६॥
लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम्' । तस्य तासु मतिं ज्ञान्वा धर्मात्मा वाक्यमब्रवीत् ॥१७॥
ईदृशैस्त्वं समाचारैर्यशोऽर्थकुलनाशनैः । धर्षणं ज्ञानिनां ज्ञात्वा स्वमतेन विचेष्टमे ॥१८॥
ज्ञातींस्तान् धर्षयित्वेमास्त्वयानीता वराङ्गनाः । त्वामतिक्रम्य मधुना गजन् कुम्भीनसी हृता॥१९॥
रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं विदम् । कोऽयं यस्तु त्वयाग्व्यातो मधुरित्येव नामतः ॥२०॥
विभीषणस्तु संक्रुद्धो भ्रातरं वाक्यमब्रवीत् । श्रूयतामस्य पापस्य कर्मणः फलमागतम् ॥२१॥
मातामहस्य योऽस्माकं ज्येष्ठो भ्राता सुमालिनः । माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः ॥२२॥
पिता ज्येष्ठा जनन्या नो ह्यस्माकं चार्यकोऽभवत् । तस्य कुम्भीनसी नाम दुहितुर्दुहिताभवत् ॥२३॥
मातृष्वसुर्थास्माकं सा च कन्यानलोद्भवा । भवत्यस्माकमेवैषा भ्रातॄणां धर्मतः स्वसा ॥२४॥
सा हृता मधुना राजन् राक्षसेन बलीयसा । यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोपिते ॥२५॥
कुम्भकर्णे महाराज निद्रामनुभवत्यथ । निहत्य राक्षसश्रेष्ठानमात्यानिह संमतान्॥२६॥
धर्षयित्वा हृता सा तु गुप्ताप्यन्तःपुरे तव । श्रुत्वापि तन्महाराज क्षान्तमेव हतो न सः॥२७।