पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
९८४
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे

पितामहमुखाश्चैव सर्वे देवाः प्रहर्षिताः । ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः॥५८॥
ऋषयः पितरश्चैव प्रीतिमापुरनुत्तमाम् । श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम् ॥ ४९॥
नारीषु मैथुने भावं नाकामास्वभ्यरोचयत् । तेन नीताः स्त्रियः प्रीतिमापुः सर्वाः पतिव्रताः ॥५०॥
नलकूबरनिर्मुक्तं शापं श्रुत्वा मनःप्रियम् ॥

इत्यार्षे श्रीमद्रामायणे वाश्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम्

उत्तरकाण्डे नलकूबरशायो नाम षड्विंशः सर्ग:



सप्तविंशः सर्गः

सुमालिवधः

कैलासM लङ्घयित्वाथ दशग्रीवः स रावणः । आससाद महातेजा इन्द्रलोकं निशाचरः ॥१॥
तस्य राक्षससैन्यस्य समन्तादुपयास्यतः । देवलोकं ययौ शब्दो मथ्यमानार्णवोपमः ॥२॥
श्रुत्वा तु रावणं प्राप्तमिन्द्रश्चलित आसनात् । अब्रवीत्तत्र तान् देवान् सर्वानेव समागतान् ॥३॥
आदित्यान् सवसून् रुद्रान् विश्वान् साध्यान् मरुद्गणान् । सज्जीभवत युद्धार्थ रावणस्य दुरात्मनः॥४॥
एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि । संना मुमहासत्त्वा युद्धश्रद्धासमन्विनाः ॥५॥
स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति । विष्णोः समीपमागम्य वाक्यमेतदुवाच ह ॥६॥
विष्णो कथं करिष्यामि महावीर्यपराक्रमः । 'असौ हि बलवान् रक्षो युद्धार्थमभिवर्तते ॥७॥
वरप्रदानाद्बलवान्न् ख्ल्वन्येन हेतुना । ततु सत्यं वचः कार्यं यदुक्तम् पद्मयोनिना ॥८॥
तद्यधा नमुचिर्वृत्रो बलिर्नरकशम्बरौ। त्वह्वलं समवष्टभ्य मया दग्धास्तथा कुरु ॥९॥
न ह्यन्यो देव देवेश त्वामृत मधुसूदन । गतिः परायणं चास्ति त्रैलोक्ये सचराचर ॥१०॥
त्वं हि नारायणः श्रीमान् पद्मनाभः सनातनः। त्वयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः ॥११॥
त्वया सृष्टमिदं सर्व त्रैलोक्यं सचराचरम् । त्यामेव भगवन् सर्वे प्रविशन्ति युगक्षये ॥१२॥
तदाचक्ष्व यथा तत्त्वं देवदेव मम स्वयम् । अपि चक्रसहायस्त्वं योत्स्यसे रावणं प्रभो ॥१३॥
एवमुक्तः स शक्रेण देवो नारायणः प्रभुः । अब्रवीन्न परित्रासः कार्यस्ते श्रूयतां च मे ॥१४॥
न तावदेष दुष्टात्मा शक्यो जेतुं सुरासुरैः । हन्तुं चापि समासाद्य वरदानेन दुर्जयः ॥१५॥
सर्वथा तु महत् कर्म करिष्यति बलोत्कटः । राक्षसः पुत्रसहितो दृष्टमेतन्निसर्गतः ॥१६॥
यत्तु मां त्वमभाषिष्ठा युध्यस्वेति सुरेश्वर । नाहं तं प्रतियोत्स्यामि रावणं राक्षसं युधि ॥१७॥
नाहत्वा समरे शत्रु विष्णुः प्रतिनिवर्तते । दुर्लभश्चैव कामोऽद्य वरगुप्ताद्धि रावणात् ॥१८॥
प्रतिजाने च देवेन्द्र त्वत्त्समीपे शतक्रतो । भवितास्मि यथास्याहं रक्षसो मृत्युकारणम् ॥१९॥
अहमेव निहन्तास्मि रावणं सपुरःसरम् । देवता नन्दयिष्यामि ज्ञात्वा कालमुपागतम् ॥२०॥
एतत्ते कथितं तत्वं देवराज शचीपते। युध्यस्व विगतत्रासः सर्वैः सार्ध महाबल ॥२१॥