पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
९८५
सप्तविंशः सर्गः


ततो रुद्राः सहादित्या वसवो मरुतोऽश्विनौ । संनद्धा निर्ययुस्तूर्ण राक्षसानभितः पुरात् ॥२२॥
एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये । तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः ॥२३॥
ते प्रयुद्धा महावीर्या धन्योन्यमभिवीक्ष्य वै। संग्राममेवाभिमुखा ह्यभ्यवर्तन्त हृष्टवत् ॥२४॥
ततो दैवतसैन्यानी संक्षोभः समजायत । तदक्षयं महासैन्यं दृष्ट्वा समरमूर्धनि ॥ २५॥
ततो युद्धं समभवद्देवदानवरक्षसाम् । घोरं तुमुलनिर्ह्रादं नानापहरणोद्यतम् ॥२६॥
एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः । युद्धार्थं समवर्तन्त सचिवा रावणस्य ते ॥२७॥
मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ । अकम्पनो निकुम्भश्च शुकः सारण एव च ॥२८॥
संह्रादो धूमकेतुश्च महादंष्ट्रो घटोदरः । जम्बुमाली महाहादो विरुपाक्षश्च राक्षसः ॥ २९॥
सुप्तघ्नो यज्ञकोपश्च दुर्मुखो दूषणः स्वरः । त्रिशिराः करवीराक्षः सूर्यशत्रुश्च राक्षसः ॥३०॥
महाकायोऽतिकायश्च देवान्तकनरान्तकौ । एतैः सर्वैः परिवृतो महावीर्यो महाबलः ॥३१॥
रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह। सदैवतगणान् सर्वान्नानापहरणैः शितैः ॥३२॥
व्यध्वंसयत सुसंक्रुद्धो वायुर्जलचरानिव । तद्दैवतबलं राम हन्यमानं निशाचरैः ॥३३॥
प्रणुन्नं सर्वतो दिग्भ्य सिंहनुन्ना मृगा इव । एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः ॥३४॥
सावित्र इति विख्यातः प्रविवेश रणाजिरम् । सैन्यैः परिवृतो हृष्टो नानाप्रहरणोद्यतैः ॥३५॥
त्रासयञ् शत्रसैन्यानि सिंहः क्षुद्रमृगानिव । तथादित्यौ महावीयौँ त्वष्टा पूषा च दंशितौ ॥३६॥
निर्भयौ सह सैन्येन तदा प्राविशतां रणे। ततो युद्धं समभवत् सुराणां सह राक्षसः॥ ३७॥
क्रुद्धानां रक्षसां कीर्ति समरेप्वनिवर्तिनाम् । ततस्ते राक्षसाः सर्व विबुधान् समरे स्थितान् ॥३८॥
नानाप्रहरणैघोरैर्जध्नु, शतसहस्रशः । देवाश्च राक्षसान् घोरान् महाबलपराक्रमान् ॥ ३९॥
समरे विमलैः शस्त्रैरुपानन्युर्यमक्षयम् । एतस्मिन्नन्तरे राम सुमाली नाम राक्षसः ॥४०॥
नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सोऽभ्यवर्तत । स दैवतबलं सर्वं नानाप्रहरणैः शितैः ॥४१॥
व्यध्वंसयत संक्रुद्धो वायुर्जलधरं यथा । ते महाबाणवर्षैश्च शूलप्रासैः सुदारुणैः ॥४२॥
हन्यमानाः सुराः सर्वे न व्यतिष्ठन्त संहताः। ततो विद्राव्यमाणेषु दैवतेषु सुमालिना ॥४३॥
वसूनामष्टमः क्रुद्धः सावित्रो चै व्यवस्थितः । संवृतः स्वैरथानीकैः प्रहरन्तं निशाचरम् ॥४४॥
विक्रमेण महातेजा वारयामास संयुग। ततस्तयोमहायुद्धमभवद्रोमहर्षणम् ॥४५॥
सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः । ततस्तस्य महाबाणैर्वसुना सुमहात्मना ॥४६॥
निहतः पन्नगरथः क्षणेन विनिपातितः । हत्वा तु संयुगे तस्य रथं वाणशतैश्चितम् ॥४७॥
गदां तस्य वधार्थाय वसुर्जग्राह पाणिना। ततः प्रगृह्य दीप्तायां कालदण्डोपमां गदाम् ॥४८॥
तां मूर्ध्नि पातयामास सावित्रो वै सुमालिनः । सा तस्योपरि चोल्काभा पतन्तीव बभौ गदा ॥।४९॥
इन्द्रप्रमुक्ता गर्जन्ती गिराविव महाशनिः । तम्य नैवास्थि न शिरो न मांसं ददृशे तदा ॥५०॥