पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
९८८
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे


एकोनत्रिंशः सर्गः

वासवग्रहणम्

ततस्तमसि संजाते सर्वे ते देवराक्षसाः । अयुध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ॥१॥
ततस्तु देवसैन्येन राक्षसानां बृहद्बलम् । दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ॥२॥
तस्मिंस्तु तामसे युद्धे सर्वे ते देवराक्षसाः । अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ॥३॥
इन्द्रश्च रावणश्चैव रावणिश्च महाबलः । तस्मिस्तमोजालवृते मोहमीयुर्न ते त्रयः ॥४॥
स तु दृष्ट्वा बलं सर्वं निहतं रावणः क्षणात्। क्रोधमभ्यागमत्तीव्रं महानादं च मुक्तवान् ॥५॥
क्रोधात् सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह । परसैन्यस्य मध्येन यावदन्तो नयस्व माम् ॥६॥
अद्यैतांस्त्रिदशान् सर्वान् विक्रमैः समरे स्वयम् । नानाशस्त्रैर्महाघोरैर्नयामि यमसादनम् ॥७॥
अहमिन्द्रं वधिष्यामि धनदं वरुणं यमम् । त्रिदशान् विनिहत्याथ स्वयं स्थास्याम्याम्यथोपरि ॥८॥
विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् । द्विः खलु त्वां ब्रवीम्यद्य यावदन्तो नयस्य माम् ॥९॥
अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् । नय मामद्य तत्र त्वमुदयो यत्र पर्वनः ॥१०॥
तस्य तद्वचनं श्रुत्वा तुरंगान् स मनोजवान् | आदिदेशाथ शत्रूणां मध्येनैव च सारथिः ॥११॥
तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा । रथस्थः समरस्थांस्तान् देवान् वाक्यमथाब्रवीत्॥१२॥
सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते। जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ॥१३॥
एष ह्यतिबल: सैन्ये रथेन पवनौजसा । गमिष्यति प्रवृद्धोर्मिः मुमुद्र इव पर्वणि ॥१४॥
न ह्येष हन्तुं शक्योऽद्य वरदानात् सुनिर्भयः। तद्ग्रहीप्यामहे रक्षो यत्ता भवत संयुगे ॥१५॥
यथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया। एवमेतस्य पापस्य निरोधो मम रोचते ॥१६॥
ततोऽन्यं दशमास्थाय शक्रः संत्यज्य रावणम् । अयुध्यत महाराज राक्षसांस्त्रासयन् रणे ॥१७॥
उत्तरेण दशग्रीवः प्रविवेशानिवर्तकः । दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ॥१८॥
ततः स योजनशतं प्रविष्टॊ राक्षसाधिपः । देवतानां बलं सर्वं शरवर्षैरवाकिरत् ॥१९॥
ततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम् । न्यवर्तयदसंभ्रान्तः समावृत्य दशाननम् ॥२०॥
एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः । हा हता स्म इति ग्रस्तं दृष्ट्वा शक्रेण रावणम् ॥२१॥
ततो रथं समास्थाय रावणिः क्रोधमूर्छिनः । तत्सैन्यमतिसंक्रुद्धः प्रविवेश सुदारुणम् ॥२२॥
तां प्रविश्य महामायां प्राप्तां गोपतिना पुरा। प्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत् ॥२३॥
स सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत । महेन्द्रश्च महातेजा नापश्यञ्च सुतं रिपोः ॥२४॥
विमुक्तकवचस्तत्र वध्यमानोऽपि रावणिः । त्रिदशैः सुमहावीरैर्न चकार च किंचन ॥२५॥
स मातलिं समायान्तं ताइयित्वा शरौतमैः। महेन्द्रं बाणवर्षेण भूय एवाभ्यवाकिरत् ॥२६॥
ततस्त्यक्त्वा रथं शक्रो विससर्जं च सारथिम् । ऐरावतं समारुह्य मृगयामास रावणिम् ॥२७॥