स तत्र मायाबलवानदृश्योऽथान्तरिक्षगः । इन्द्रं मायापरिक्षिप्तं कृत्वा संप्राद्रवच्छरैः ॥२८॥
स तं यथा परिश्रान्तमिन्द्रं जज्ञेऽथ रावणिः । तदैनं मायया बद्ध्वा स्वसैन्यमभितोऽनयत् ॥२९॥
तं तु दृष्ट्वा बलातेन नीयमानं महारणात् । महेन्द्रममराः सर्वे किं नु स्यादित्यचिन्तयन् ॥३०॥
दृश्यते न स मायावी शक्रजित् समितिंजयः । विद्यावानपि येनेन्द्रो मायया नीयते बलात् ॥३१॥
एतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा । रावणं विमुखीकृत्य शरवर्षैरवाकिरन् ॥३२॥
रावणस्तु समासाद्य आदित्यांश्च वसूंस्तथा । न शशाक स संग्रामे योद्धुं शत्रुभिरर्दितः ॥।३३॥
स तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम् । रावणिः पितरं युद्धेऽदर्शनस्थोऽब्रवीदिदम् ॥३४॥
आगच्छ तात गच्छामो रणकर्ता निवर्तताम्। जितं नो विदितं तेऽस्तु स्वस्थो भव गतज्वरः।।३५॥
अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः । स गृहीतो दैवबलाद्भग्रदर्पाः सुराः कृताः ॥३६॥
यथेष्टं भुङ्क्ष्व लोकांस्त्रीन्निगृह्यारातिमोजसा । वृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम् ॥३७॥
ततस्ते दैवतगणा निवृत्ता रणकर्मणः । तच्छ्रुत्वा रावणेर्वाक्यं 'स्वस्थचेता बभूव ह ॥३८॥
अथ रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचाराधिपः ।
स्वभवनमभितो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् ॥ ३९॥
अतिबलसदृशैः पराक्रमैस्तैर्मम कुलमानविवर्धनं कृतम् ।
यदयमतुल्यबलस्त्वयाद्य वै त्रिदशपतिस्त्रिदशाश्च निर्जिताः ॥४०॥
नय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम् ।
अहमपि तव गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः ॥४१॥
अथ स बलवृतः सवाहनस्त्रिदशपतिं परिगृह्य रावणिः ।
स्वभवनमभिगम्य वीर्यवान् कृतसमरान् विससर्ज राक्षसान् ॥४२॥
इत्या्र्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
उत्तरकाण्डे वासवग्रहणं नाम एकोनत्रिंशः सर्गः
त्रिंशः सर्गः
इन्द्रपराजयकारणकथनम्
जिते महेन्द्रेऽतिबले रावणस्य सुतेन वै । प्रजापतिं पुरस्कृत्य ययुर्लङ्कां सुरास्तदा । ॥१॥