पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
९९२
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे

भगवन् राक्षसः क्रूरो यदाप्रभृति मेदिनीम् । पर्यटत् किं तदा लोकाः शून्या आसन् द्विजोत्तम ॥२॥
राजा वा राजमात्रो वा किं तदा नात्र कश्चन । धर्षणं येन न प्राप्तो रावणो राक्षसेश्वरः ॥३॥
उताहो हतवीर्यास्ते बभूवुः पृथिवीक्षितः । बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः ॥४॥
राघवस्य वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः । उवाच रामं प्रहसन् पितामह इवेश्वरम् ॥५॥
इत्येवं बाधमानस्तु पार्थिवान् पार्थिवर्षभ । चचार रावणो राम पृथिवीं पृथिवीपते ॥६॥
ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रमाम् । संप्राप्तो यत्र सांनिध्यं सदासीद्वसुरेतसः ॥७॥
तुल्य आसीन्नृपस्तस्य प्रभावाद्वसुरेतसः । अर्जुनो नाम यत्राग्निः शरकुण्डेशयः सदा ॥८॥
यमेव दिवसं सोऽथ हैहयाधिपतिर्बली । अर्जुनो नर्मदा रन्तुं गतः स्त्रीभिः सहेश्वरः ॥९॥
तमेव दिवसं सोऽथ रावणस्तत्र आगतः । रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ॥१०॥
क्वार्जुनो नृपतिः शीघ्रं सम्यगाख्यातुमर्हथ । रावणोऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण ह ॥११॥
ममागमनमप्यग्रे युष्माभिः संनिवेद्यताम् । इत्येवं रावणोक्तास्ते अमात्याः सुविपश्चितः ॥१२॥
अब्रुवन् राक्षसपतिमसान्निध्यं महीपतेः । श्रुत्या विश्रवसः पुत्रः पौराणामर्जुनं गतम् ॥१३॥
अपसृत्यागतो विन्ध्यं हिमवत्सन्निभं गिरिम् । स तमभ्रमिवाविष्टमुद्भ्रान्तामिव मेदिनीम् ॥१४॥
अपश्यद्रावणो विन्ध्यमालिस्वन्तमिवाम्बरम् । सहस्र शिखरोपेतं सिंहाध्युपितकन्दरम् ॥१५॥
प्रपातपतितैस्तोयैः साट्टहासमिवाम्बुधिम्। देवदानवगन्धर्वैः साप्सरोगर्णाकंनरैः ॥१६॥
'सस्त्रीभिः क्रीडमानैश्च स्वर्गभूतं महोच्छ्यम् । नदीभिः म्यन्दमानाभिः स्फाटिकपतिमं जलम् ॥१७॥
फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम 1 उत्क्रामन्तं दर्शमन्तं हिमवत्संनिभं गिरिम् ॥१८॥
पश्यमानस्ततो विन्ध्यं रावणो नर्मदा ययौ । चलोपलदलां पुण्यो पश्चिमोदधिगामिनीम् ॥१९॥
महिषैः सृमरैः सिंहैः: शार्दूलर्क्षगजोत्तमैः । उष्णाभितप्तैस्तृपितैः संक्षोभिनजलाशयाम् ॥।२०॥
चक्रवाकैः सकारण्डैः सहसजलकुक्कुटैः । सारसैश्च सदा मत्तैः मुकुजद्भिः समावृतम् ॥२१॥
फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम । विस्तीर्णपुलिनश्रोणी हंसावलिसुमेखालाम् ॥ २२॥
पुष्परेण्वनुलिप्ताङ्गी जलफेनामलांशुकाम । जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् ॥२३॥
पुप्पकादवरुह्याशु नर्मदां सरितां वराम् । इष्टामिव वगं नारीमवगाह्य दशाननः ॥ २४॥
स तस्याः पुलिने रम्ये नानामुनिनिपेविते । उपोपविष्टैः सचिवैः सार्धं राक्षसपुङ्गवः ॥।२५॥
प्रख्याय नर्मदां चाथ गङ्गेयमिति रावणः । नर्मदादर्शजं हर्षमाप्तवान् राक्षसाधिपः ॥२६॥
ततः सलीलं प्रहसन् रावणो राक्षसेश्वरः । उवाच सचिवांस्तत्र प्रहस्तशुकसारणान् ॥२७॥
एष रश्मिसहस्रेण जगत्कृन्वेव काञ्चनम् । तीक्ष्णतापकरः सूर्यो नभसोऽर्धं समाश्रितः ॥२८॥
मामासीनं विदित्वेह चन्द्रायति दिवाकरः । नर्मदाजलशीतश्च सुगन्धिः श्रमनाशनः ॥२९॥






3