पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

५५
१००४
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे

अगस्त्यस्त्वब्रवीद्रामं सर्वमेतच्छ्रुतं त्वया । दृष्टः संभाषितश्चासि राम गच्छामहे वयम् ॥ ५२
श्रुत्वैतद्राघवो वाक्यमगस्त्यस्योग्रतेजसः । प्राञ्जलिः प्रणतश्चापि महर्षिमिदमब्रवीत् ॥५३
अद्य मे देवता हृष्टाः पितरः प्रपितामहाः । युष्माकं दर्शनादेव नित्यं तुष्टाः सबान्धवाः॥ ५४
विज्ञाप्यं तु ममैतद्धि तद्वदाम्यागतस्पृहः । तद्भवद्भिर्मम कृते कर्तव्यमनुकम्पया ।।४५
पौरजानपदान् स्थाप्य स्वकार्येप्वमागतः । क्रतूनेव करिष्यामि प्रभावाद्भवतां सताम् ॥ ५६
सदस्या मम यज्ञेषु भवन्तो नित्यमेव तत् । भविष्यथ महावीर्या ममानुग्रदृकाङ्क्षिणः ॥ ५७
अहं युष्मान् समाश्रित्य तपोनिर्धूनकल्मपान् । अनुग्रहीनः पितृभिर्भविष्यामि सुनिर्वृतः ॥ ५८
तदागन्तव्यमनिशं भवद्भिरिह संगतैः । अगम्त्याद्याम्तु तच्छ्रुत्वा ऋषयः संशितव्रताः ॥५९
एवमम्विति ने चोक्ता प्रयातुमुपचक्रमुः। एवमुक्ता गताः सर्वे ऋषयन्ते यथागनम् ॥६०
राघवश्व तमेवार्थ चिन्तयामास विस्मितः । ततोऽम्तं भास्करे याते विमृज्य नृपवानरान्॥६१
सन्ध्यामुपाम्य विधिवत्तदा नरवरोत्तमः । प्रवृत्तायां रजन्यां तु सोऽन्त पुरचरोऽभवन् ।। ६२
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहिनायाम
उत्तरकाण्डे हनूमद्वरप्राप्त्यादि नाम षटत्रिंशः सर्ग:

सप्तत्रिंश सर्गः
पौरोपम्थानम्
अभिषिक्त तु काकुन्म्थे धर्मेण विदितात्मनि । व्यतीता या निशा पूर्व पौगणां हर्षवर्धनी ॥१
तम्यां रजन्यां व्युष्टायां प्रातर्नृपतिबांधकाः । वन्दिन समुपातिष्ठन् सौम्या नृपनिवेश्मनि ॥ २
ते रक्तकण्ठिनः सर्वे किन्नरा इव शिक्षिता । तुष्टुवुर्नृपति वीरं यथावत् संग्रहर्षिणः ॥३
वीर सौम्य प्रबुध्यम्ब कौसल्याप्रीतिवर्धन । जगद्धि सर्व स्वपिनि त्वयि सुप्ते नराधिप ।।४
विक्रमम्ने यथा विष्णो रूपं नैवाश्विनोरिव । बुद्धया वृहम्पतम्तुल्य. प्रजापतिसमो यसि ।। ५
क्षमा ने पृथिवीतुल्या तेजसा भाम्कगेपम. । वेगम्ने वायुना तुल्यो गाम्भीर्यमुदधेरिरिव ॥ ६
अप्रकम्प्यो यथा स्थाणुश्चन्द्रे सौम्यत्वमीदृशम् । नेदृशाः पार्थिवा. पूर्व भवितारो नराधिप।। ७
यथा त्वमनिदुर्धर्षा धर्मनित्यः प्रजाहितः । न त्वां जहाति कीनिश्च लक्ष्मीश्च पुरुषर्षभ ॥ ८
श्रीश्च धर्मश्च काकुत्स्थ त्वयि नित्यं प्रतिष्ठितौ । एताश्चान्याश्च मधुरा वन्दिभिः परिकीर्तिताः॥९
सूताश्च संस्तवैदिव्याधयन्ति स्म राघवम् । स्तुतिभिः स्तूयमानामिः प्रत्यबुध्यत राघवः ॥ १०
स तद्विहाय शयनं पाण्डगच्छादनाम्तृतम् । उत्तस्थौ नागशयनाद्धरिर्नारायणो यथा ।।११
समुत्थितं महात्मानं प्रह्वाः प्राञ्जलयो नराः। सलिलं भाजनैः शुभ्रैरुपनस्थुः सहस्रशः ॥ १२
कृतोदकः शुचिर्भूत्वा काले हुतहुनाशनः । देवागारं जगामाशु पुण्यमिक्ष्वाकुसेवितम् ॥ १३