पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुश्चत्वारिंशः सर्गः १०२१ शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः । श्रुत्वेदानीं शुभं कुर्या न कुर्यामशुभानि च ॥ कथयस्व च विस्रब्धो निर्भयं विगतज्वरः । कथयन्ति यथा पौराः पापा जनपदेषु च ॥ ११ राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः। प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ।। १२ शृणु राजन् यथा पौराः कथयन्ति शुभाशुभम् । चत्वरापणरथ्यासु वनेषूपवनेषु च ।। दुष्करं कृतवान् रामः समुद्रे सेतुबन्धनम् । अश्रुतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः ॥ १४ रावणश्च दुराधर्षो हतः सबलवाहनः । वानराश्च वशं नीता ऋक्षाश्च सह राक्षसः ॥ १५ हत्त्वा च रावणं संख्ये सीतामाहृत्य राघवः । 'अमर्ष पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ॥ १६ कीदृशं हृदये तस्य सीनासंभोगजं सुखम् । अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम् ॥ १७ लङ्कामपि पुरा नीतामशोकवनिकां गताम् । रक्षसां वशमापन्नां कथं रामो न कुत्सते ॥ १८ अस्माकमपि दारेषु सहनीयं भविष्यति । यथा हि कुरुते राजा प्रजा तमनुवर्तते ।। एवं बहुविधा वाचा बदन्नि पुरवासिनः । नगरेषु च सर्वेषु राजञ्जनपदेषु च ।। २० तम्यैवं भाषितं श्रुत्वा राघवः परमार्तवत । उवाच सुहृदः सर्वान् कथमेतद्भवीथ माम् ॥ २१ सर्वे तु शिरसा भृमावभिवाद्य प्रणम्य च । प्रत्यूचू राघवं दीनमेवमेनन्न संशयः ।। २२ श्रुन्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् । विमर्जयामास तदा वयस्थाञ्चशत्रुसूदनः ।। इत्यार्ये श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्ड भद्रवाक्यश्रवणं नाम त्रिचत्वरिशः मर्ग: चतुश्चत्वारिंशः सर्गः लक्ष्मणाद्यानयनम् विसृज्य तु सुहृद्धग बुद्धया निश्चित्य राघवः । समीपे द्वाःम्यमासीनमिदं वचनमब्रवीत् ॥ १ शीघ्रमानय सौमित्रि लक्ष्मणं शुभलक्षणम् । भरतं च महाभागं शत्रुभमपराजितम् ।। २ रामस्य वचनं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः । लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः॥३ उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः । द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् ।। बाढमित्येव सौमित्रिः श्रुत्वा राधवशासनम् । प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् ॥ प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् । उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः ॥ ६ विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति । भरतस्तु वचः श्रुत्वा द्वाःस्थाद्रामसमीरितम् ॥ उत्पपातासानापूर्ण पद्भ्यामेव ययौ बली । दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ॥ शत्रनभवनं गत्वा ततो वाक्यमुवाच ह । एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ।। 1. क्रोधं इति तिलकः, अभिमान इति 2. आर्तवत् दु:खीवाकारं कृत्वा, वस्तुतो युज्यते अर्थः। भगवति हर्षदुःखबारभावात् इति तिलकः । ८ ९