पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०८४

एतत् पृष्ठम् परिष्कृतम् अस्ति

४ ६ २ अष्टचत्वारिंशः सर्गः १०२५ हृदतं मे महच्छल्यं यस्मादार्येण धीमता । अस्मिनिमिते वैदेहि लोकस्य वचनीकृतः ॥ श्रेयो हि मरणं मेऽद्य मृत्युर्वा यत्परं भवेत् । न चास्मिन्नीशे कार्ये नियोज्यो लोकनिन्दिते ॥ प्रसीद च न मे पापं कर्तुमर्हसि शोभने । इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ॥ रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः । मैथिली भृशसंविमा लक्ष्मणं वाक्यमब्रवीत् ।। किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण । पश्यामि त्वां न च स्वस्थमपि क्षेमं महीपतेः ॥८ शापितोऽसि नरेन्द्रेण यत्त्वं संतापमागतः । तद्व्याः संनिधौ मख्यमहमाज्ञापयामि ते ॥ वैदेह्या चोद्यमानम्तु लक्ष्मणो दीनचेतनः । अवाङ्मुखो बाष्पकलं वाक्यमेतदुवाच ह ॥ १० श्रुत्वा परिषदो मध्ये ह्यपवाद सुदारुणम् । पुरे जनपदे चैव त्वत्कृते जनकात्मजे ॥ रामः संतप्तहृदयो मां निवेद्य गृहं गतः । न तानि वचनीयानि मया देवि तवाग्रतः ।। १२ यानि राज्ञा हृदि न्यस्तान्यमात् पृष्ठतः कृतः । सा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ।। पौरापवादभीतेन ग्राह्य देवि न तेऽन्यथा । आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि ।। राज्ञः शासनमाज्ञाय तवेदं किल दौहृदम् । तदेतज्जाहवीतीरे ब्रह्मर्षीणां तपोवनम् ॥ १५ पुण्यं च रमणीयं च मा विषादं कृथाः शुभे। राज्ञो दशरथस्येष्टः पितुर्म मुनिपुङ्गवः ।। १६ सखा परमको विप्रो वाल्मीकिः सुमहायशाः। पादच्छायामुपागम्य सुखमस्य महात्मनः।। १७ उपवासपरकाया वस त्वं जनकात्मजे। पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि । १८ श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहक्षिकायां संहितायाम् उत्तरकाण्डे रामशासनकथनं नाम सप्तचत्वारिंशः सर्गः २ अष्टचत्वारिंशः सर्गः सीतापरित्यागः लक्ष्मणम्य वचः श्रुत्वा दारुणं जनकात्मजा । परं विषादमागम्य वैदेही निपपात ह ॥ १ सा मुहूर्नमिवासंज्ञा बाप्पपर्याकुलेक्षणा । लक्ष्मणं दीनया वाचा उवाच जनकात्मजा ।। मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण । धात्रा यस्यास्तथा मेऽद्य दुःखमूर्तिः प्रदृश्यते ॥ ३ किं नु पापं कृतं पूर्व को वा दारैवियोजितः । याहं शुद्धसमाचारा त्यक्ता नृपतिना सती ॥४ पुराहमाश्रमे वासं रामपादानुवर्तिनी। अनुरुध्यापि सौमित्रे दुःखे च परिवर्तिनी ।। सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता। आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा ।। किं नु वक्ष्यामि मुनिषु कर्म वासत् कृतं च किम् । कस्मिंश्चित् कारणे त्यक्ता राघवेण महात्मना ।। न खल्वथैव सौमित्र जीवितं नाइवीजले । त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते ॥ यथाज्ञं कुरु सौमित्रे त्यज्य मां दुःखभागिनीम् । निदेशे स्थीयतां राज्ञः शृणु नेदं वचो मम ॥ ५ ८ २. सज.प्र.। १. प्रमो. ति.। 129