पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुष्पश्चाशः सर्गः ५ १०३१ आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा । कार्यार्थिनश्च पुरुषाः स्त्रियो वा पुरुषर्षभ ॥ पौरकार्याणि यो राजा न करोति दिने दिने। संवृते नरके घोरे पतितो नात्र संशयः ॥ ६ श्रूयते हि पुरा राजा नृगो नाम महायशाः । बभूव पृथिवीपालो प्रमण्यः सत्यवाक शुचिः।।७ स कदाचिद्गवां कोटीः सवत्साः स्वर्णभूषिताः । नृदेवो भूमिदेवेभ्यः पुष्करेषु ददौ नृपः ॥ ८ ततः सङ्गाद्गता धेनुः सवत्सा स्पर्शितानघ । ब्राह्मणस्याहितामेश्च दरिद्रस्योन्छवर्तिनः ।। ९ स नष्टां गां क्षुधातॊ वै अन्विष्यंस्तत्र तत्र च । नापश्यत् सर्वराज्येषु संवत्सरगणान् बहून् । ततः कनखलं गत्वा जीर्णवत्सां निरामयाम् । ददर्श गां स्वकां धेनुं ब्राह्मणस्य निवेशने ॥११ अथ तां नामधेयेन स्वकेनोवाच स द्विजः । आगच्छ शबलेत्येवं सा तु शुश्राव गौः स्वरम् ।। तस्य तु स्वरमाज्ञाय क्षुधार्तस्य द्विजस्य वै । अन्वगात् पृष्ठतः सा गौर्गच्छन्तं पावकोपमम् ॥ योऽपि पालयते विप्रः सोऽपि गामन्वगाद्रुतम् । गत्वा तमृषिमाचष्ट मम गौरिति सत्वरम् ।। स्पर्शिता राजसिंहेन मम दत्ता नृगेण ह । तयोर्ब्राह्मणयोर्वादो महानासीद्विपश्चितोः ॥ १५ विवदन्तौ ततोऽन्योन्यं दातारमभिजग्मतुः । तौ राजभवनद्वारि अप्राप्य नृगदर्शनम् ॥ १६ अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः । ऊचतुश्च महात्मानौ तावुभौ द्विजसत्तमौ ॥ १७ क्रुद्धौ परमसंतप्तौ वाक्यं घोराभिसंहितम् । अर्थिनां कार्यसिद्धयर्थ यस्मात्त्वं नैषि दर्शनम् ॥ अदृश्यः सर्वभूतानां कृकलासो भविष्यसि । बहुवर्षसहस्राणि बहुवर्षशतानि च ॥ श्वभ्रेऽस्मिन् कृकलासो वै दोर्घकालं वसिष्यसि । उत्सल्यते हि लोकेऽस्मिन् यदूनां कीर्तिवर्धनः।। वासुदेव इति ग्व्यातो लोके पुरुषविग्रहः । स ते मोक्षयिता राजंस्तम्माच्छापाद्भविष्यति ।। २१ कृता च तेन कालेन निष्कृतिम्ते भविष्यति । भारावतरणार्थ हि नरनारायणावुभौ ।। २२ उत्पत्स्येते महावीयौ कलौ युग उपस्थिते । एवं तौ शापमुत्सृज्य ब्राह्मणौ विगतज्वरौ ॥ २३ तां गां हि दुर्वलां वृद्धां ददतु मणाय वै । एवं स राजा तं शापमुपभुङ्क्ते सुदारुणम् ॥२४ कार्यार्थिनां विमर्दो हि राज्ञां दोपाय कल्पते । तच्छीचं दर्शनं मह्यमभिवर्तन्तु कार्यिणः ॥२५ सुकृतस्य हि कार्यस्य फलं नावैति पार्थिवः । तस्माद्गच्छ प्रतीक्षस्व सौमित्रे कार्यवाञ्जनः ॥ २६ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे नृगशापकथनं नाम त्रिपञ्चाश: सर्ग: चतुष्पञ्चाशः सर्गः नृगश्वभ्रप्रवेशः रामस्य भाषितं श्रुत्वा लक्ष्मणः परमार्थवित् । उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ॥ १ अल्पापराधे काकुत्स्थ द्विजाभ्यां शाप ईदृशः । महान्नृगस्य राजर्षेर्यमदण्ड इवापरः ।। २ श्रुत्वा तु पापसंयुक्तमात्मानं पुरुषर्षभ । किमुवाच नृगो राजा द्विजो क्रोधसमन्वितौ ॥ ३ १. न प्राप्ती नगशासनम् ब. ति.। २. श्वनं त्वं कलीभूतो दीर्घकालं निवस्मसि । ति.।