पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११०७

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४८ श्रीमद्वाल्मीकिरामायणे उतरकाण्डे निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः । सन्तापमकरोद्धोरं सौदासे चेदमब्रवीत् ॥ यस्मादनपराधं त्वं सहायं मम जनिवान् । तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ॥ १६ एवमुक्ता तु तद्रक्षस्तत्रैवान्तरधीयत । कालपर्याययोगेन राजा मित्रमहोऽभवत् ।। १७ राजा तु यजते यज्ञमस्याश्रमसमीपतः । अश्वमेधं महायज्ञं तं वसिष्ठोऽभ्यपालयत् ।। १८ तत्र यज्ञो महानासीबहुवर्षगणायुतः । समृद्धः परया लक्ष्म्या देवयज्ञसमोऽभवत् ।। अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् । वसिष्ठरूपी राजानमिति होवाच राक्षसः ।। २० अस्य यज्ञस्य जातोऽन्तः सामिषं भोजनं मम । दीयतामिह शीघ्रं वै नात्र कार्या विचारणा ।। तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा । भक्ष्यसंस्कारकुशलमुवाच पृथिवीपतिः ॥ २२ हविष्यं स्वामिषं स्वादु यथा भवति भोजनम् । तथा कुरुष्य शीघ्रं वै परिनुष्येद्यथा गुरुः ॥२३ शासनात् पार्थिवेन्द्रस्य सूदः संभ्रान्तमानसः। स राक्षसः पुनस्तत्र मूदवेपमथाकरोन ॥ २४ स मानुषमयो मांसं पार्थिवाय न्यवेदयत् । इदं म्वादु हविष्यं च सामिषं चान्नमाहृतम् ॥ २५ स भोजनं वसिष्ठाय पन्या सार्धमुपाहरन । मदयन्त्या नरव्याघ्र सामिषं रक्षसाहृतम् ॥ २६ ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् । क्रोधेन महताविष्टो व्याहर्तुमुपचक्रमे ।। यस्मात्त्वं भोजनं राजन् ममतदातुमिच्छसि । तस्माद्भोजनमेतत्ते भविष्यति न संशयः ।। ततः क्रुद्धम्तु सौदासम्तोयं जग्राह पाणिना । वमिष्ठं शप्तुमारभे भार्या चैनमवाग्यत ।। २९ राजन् प्रमुर्यतोऽम्माकं वसिष्ठो भगवानृषिः । प्रतिशप्तुं न शक्तमत्वं देवतुल्यं पुगेधसम् ।। ३० ततः क्रोधमयं तोय तेजोबलसमन्वितम् । व्यसर्जयन धर्मात्मा ननः पादौ सिपंच च ।। ३१ तेनास्य राज्ञस्तौ पादौ तदा कल्मायतां गतौ । तदाप्रभृति राजासौ सौदामः सुमहायशाः ।। कल्माषपादः संवृत्तः ज्यानश्चैव तथा नृपः । स राजा सह पन्या वै प्रणिपत्य मुहुर्मुहुः ॥३३ पुनर्वसिष्ठं प्रोवाच युदुक्तं ब्रह्मरूपिणा । तच्छुत्वा पार्थिवेन्द्रस्य रक्षसाधिकृतं च तत् ॥ पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् । मया रोषपरीतेन यदिदं व्याहृतं वचः ।। ३५ नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् । कालो द्वादशवर्षाणि शापस्यान्नो भविष्यति ।। मत्प्रसादाच राजेन्द्र व्यतीतं न स्मरिष्यसि । एवं स राजा तं शापमुपभुज्यारिसूदनः ॥ ३७ प्रतिलेमे पुना राज्यं प्रजाश्चैवान्वपालयत् । तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् ॥ ३८ आश्रमस्य समीपेऽस्य यन्मां पृच्छसि राघव । तस्य तां पार्थिवेन्द्रम्य कथां श्रुत्वा सुदारुणाम् ।। विवेश पर्णशालायां महर्षिमभिवाद्य च ॥ २८ इत्यार्षे श्रीमहामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे सौदासकथा नाम पश्चषष्टितमः सर्गः १. सूदान संस्कारकालान् ति.।