पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१११

पुटमेतत् सुपुष्टितम्

द्विचत्वारिंशः सर्गः भगीरथवरप्रदानम्

कालधर्मं गते राम सगरे प्रकृतीजनाः । राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् ।। १ स राजा सुमहानासीदंशुमान् रघुनन्दन । तस्य पुत्रो महानासीद्दिलीप इति विश्रुतः ।। २ तस्मिन् राज्यं समावेश्य दिलीपे रघुनन्दन । हिमवच्छिखरे पुण्ये तपस्तेपे सुदारुणम् ।। ३ द्वात्रिंशच सहस्राणि वर्षाणि सुमहायशाः । तपोवनं गतो राजा स्वर्गं लेभे महायशाः ।। ४ दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् । दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत ।। ५ कथं गङ्गावतरणं कथं तेषां जलक्रिया । तारयेयं कथं चैतानिति चिन्तापरोऽभवत् ।। ६ तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः । पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ।। ७ दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् । त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् ॥ ८ अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति । व्याधिना नरशार्दूल कालधर्ममुपेयिवान् ।। ९ इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा । राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभम् ।। १० भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन । अनपत्यो महातेजाः प्रजाकामः स चाप्रजाः ॥ ११ मन्त्रिष्वाधाय तद्राज्यं गङ्गावतरणे रतः । स तपो दीर्घमातिष्ठद्गोकर्णे रघुनन्दन ।। १२ ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः । तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः। १३ अतीतानि महाबाहो तस्य राज्ञो महात्मनः । सुप्रीतो भगवान् ब्रह्मा प्रजानां पतिरीश्वरः ।। १४ ततः सुरगणैः सार्धमुपागम्य पितामहः । भगीरथं महात्मानं तप्यमानमथाब्रवीत् ।। १५ भगीरथ महाभाग प्रीतस्तेऽहं जनेश्वर । तपसा च सुतप्तेन वरं वरय सुव्रत ॥ १६ तमुवाच महातेजाः सर्वलोकपितामहम् । भगीरथो महाभागः कृताञ्जलिरुपस्थितः ।। १७ यदि मे भगवान् प्रीतो यद्यस्ति तपसः फलम् । सगरस्यात्मजाः सर्वे मत्तः सलिलमाप्नुयुः ।। १८ गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम् । स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः ॥ १९ देया च संततिर्देव नावसीदेत् कुलं च नः । इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः ॥ २० उक्तवाक्यं तु राजानं सर्वलोकपितामहः । प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम् ।। २१ मनोरथो महानेष भगीरथ महारथ । एवं भवतु भद्रं ते इक्ष्वाकुकुलमव्ययम् ।। २२ इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता । तां वै धारयितुं शक्तो हरस्तत्र नियुज्यताम् ।। २३ गङ्गायाः पतनं राजन् पृथिवी न सहिष्यति । तां वै धारयितुं वीरं नान्यं पश्यामि शूलिनः ।। २४